रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 146, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः —:०:— अक्षसूत्रं पुस्तकञ्च कमण्डलुवरान्वितः । विश्वकर्मा चतुर्हस्तस्त्रिनेत्रश्चन्द्रशेखरः ॥ १ ॥ इति विश्वकर्मा । ऋग्वेदादिप्रभेदोक्ता( देन ? ) कृतादियुगभेदतः । विप्रादिवर्णभेदेन चतुर्वक्त्रं चतुर्भुजम् ॥ २ ॥ अक्षसूत्रं करे दत्ते शुचिस्तस्या ( स्यो ? )र्द्धतः स्थिता । स्याद् वामे पुस्तकं हस्ते तस्या(स्यो ?)र्द्धे च कमण्डलुः ॥३ कमलासननामानं (माद्यं ? ) सर्ववर्णे हितप्रदः । कर्तृकारापकैः(?) सार्द्धं लोहितः कमलासनः ॥ ४ ॥ इति कमलासनः । १ । अयमध्यायो ब्रह्मादीनां देवानामायुधवर्णवाहनादिनिर्णयार्थं प्रवृत्त इति ज्ञायते एतद्ग्रन्थकृत्कृत्यन्तराद्रूपमण्डनात् । तथा च— ब्रह्मादीनाञ्च देवानां देवीनाञ्च यथाक्रमम् । आयुधानि तथा वर्णं वाहनं कथयाम्यथ ॥ ( इति अ० २,९ श्लो०) अस्य ग्रन्थस्य शिल्पशास्त्रत्वात् तत्कर्त्तृत्वेनाभ्यर्हितस्याऽऽदौ विश्वकर्मणो रूपं निर्दिशति—अक्ष- सूत्रमिति । अस्मदुपलब्धेषु शिल्पशास्त्रेषु ऋते रूपमण्डनमृते च प्रकृतग्रन्थं न विश्वकर्मणो रूपमुपनिबद्धमुपलब्धम् । रूपमण्डने पुनः किञ्चिदु विलक्षणमेव लक्षणमस्माद् ग्रन्थात् । तथा च— विश्वकर्मा चतुर्बाहुरक्षमालाञ्च पुस्तकम् । कम्बां (कम्बुं ? ) कमण्डलुं धत्ते त्रिनेत्रो हंसवाहनः ॥ इति । ( अ० २, १० श्लो० ) २-४ । एकस्यैव ब्रह्मणो नामभेदेन चत्वारि रूपाणि निरूपयिष्यन्नादौ कमलासनं वक्तुं