भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 147, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 147

६० देवतामूर्त्तिप्रकरणम् तस्य चतुर्बाहुत्वे चतुर्मुखत्वे च हेतुप्रदर्शनपूर्वकं स्वरूपमाह—ऋग्वेदादीति। ऋगादयश्चत्वारो वेदाः कृतादयश्चत्वारि युगानि; ब्राह्मणादयश्चत्वारो वर्णाश्चेति यथासम्भवं तत्समष्टृत्वतत्- कत्र्त्तृत्वादिरूपेण ब्रह्मणोऽपि चत्वारि मुखानि चत्वारो बाहवश्चेत्यर्थः। तत्र कृतं सत्ययुगम्; करे दक्षे इति दक्षाधःकरे, ऊर्द्ध्वत इति दक्षोर्द्ध्वतः, एवं वामेऽपि। द्वितीयकमलासनपदं विशेषणपरम्। मत्स्यपुराणे— ब्रह्मा कमण्डलुधरः कर्त्तव्यः स चतुर्मुखः। हंसारूढः क्वचित् कार्यः क्वचिच्च कमलासनः॥ वर्णतः पद्मगर्भाभश्चतुर्बाहुः शुभेक्षणः। कमण्डलुं वामकरे स्रुवं हस्ते तु दक्षिणे॥ वामे दण्डधरं तद्वत् स्रुवञ्चापि प्रदर्शयेत्। मुनिभिर्देवगन्धर्वैः स्तूयमानं समन्ततः॥ कुर्वाणमिव लोकांस्त्रीन् शुक्लाम्बरधरं विभुम्। मृगचर्मधराञ्चापि दिव्ययज्ञोपवीतिनम्॥ आज्यस्थालीं न्यसेत् पार्श्वे वेदांश्च चतुरः पुनः। वामपार्श्वेऽस्य सावित्रीं दक्षिणे च सरस्वतीम्॥ अग्रे च ऋषयस्तद्वत् कार्याः पैतामहे पदे। इति। (अ० २६०, ४०-४५ श्लो०) समराङ्गणसूत्रधारे च— ब्रह्मानलार्चिप्रतिमः कर्त्तव्यः सुमहाद्युतिः॥ स्थूलाङ्गः श्वेतपुष्पश्च श्वेतवेष्टनवेष्टितः। कृष्णाजिनोत्तरीयश्च श्वेतवासाश्चतुर्मुखः॥ दण्डः कमण्डलुश्चास्य कर्त्तव्यो वामहस्तयोः। अक्षसूत्रधरस्त(द्वा ? द्वद्व) मौञ्ज्या मेखलया वृतः॥ इति। (अ० ७७, २-४ श्लो०) शिल्परत्नोत्तरभागेऽपि (अ० २९, १२३-१२७ श्लो०) प्रायेणैवमेव ब्रह्मणो लक्षण- मुल्लिखितम्। परं प्रकृतग्रन्थ इव कुत्रापि ब्रह्मणश्चतुर्भेदभिन्नत्वं न दृश्यते। कमलासनः कस्मिन् युगे सुखदायक इति नोपलभ्यते। विरिञ्चिब्रह्मणौ कृते सुखदायको, पितामहस्त्रेतायाम्। तत्र पारिशेष्याद् भवतु कमलासनः कलौ वा द्वापरे वा, न तेनैकेन युगद्वयवर्तिनां जनानां सुखं शक्यसम्पादनमिति सुधीभिश्चिन्तनीयम्।

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक) · पृष्ठ 147, कुल 335 में से · BharatKosha