भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 149, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 149

६२ देवतामूर्त्तिप्रकरणम् नीलोत्पलदलाभासः सामवेदो हयाननः । अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः ॥ ११ ॥ इति सामवेदः । अथर्वणाभिधो वेदो धवलो मर्कटाननः । अक्षसूत्रञ्च खट्वाङ्गं बिभ्राणो विजयश्रिये ॥ १२ ॥ इत्यथर्वणः । नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाधरम् । अक्षसूत्रं त्रिशूलञ्च बिभ्राणं तं (तत् ?) त्रिलोचनम् ॥१३॥ इति नृत्यशास्त्रम् । [ अथ ब्रह्मायतनेऽन्यदेवतापदम् ] आग्नेय्यां तु गणं प्रोक्तं मातृस्थानञ्च दक्षिणे । नैर्ऋत्ये तु सहस्राक्षं वारुण्यां जलशायिनम् ॥ १४ ॥ वायव्ये पार्वतीरुद्रौ गृहा ( ग्रहा ? ) श्चैवोत्तरे स्मृताः । ईशाने च श्रिया देवी प्राच्यान्तु धरणीधरः ॥ १५ ॥ [ अथ ब्रह्मणोऽष्टौ प्रतीहाराः ] ब्रह्मणो ( णोऽ ?) ष्टौ प्रतीहाराः कथयिष्याम्यनुक्रमात् । पुरुषाकारगम्भीराः सकूर्ची ( र्चा ?) मुकुटोज्ज्वलाः ॥ १६ ॥ १४-१५ । अत्र द्वितीयान्तानां पदानां कल्पयेदित्यध्याहृतक्रिययाऽन्वयः, गणं प्रोक्तमिति शास्त्रान्तरे कथितं गणदेवमित्यर्थः । श्रिया देवीत्यभेदे तृतीया श्रीदेवीत्यर्थः । १६ । पूर्वं ब्रह्मणश्चतुरो भेदान् दर्शयन्नपि साम्प्रतं ब्रह्मत्वेनैक्यं परिकल्पयन् अष्टौ प्रतीहारा- नाह—ब्रह्मण इति । तत्राऽऽदौ सर्वसाधारणं विशेषणत्रयमाह—पुरुषेत्यादि । सकूर्चा इति । कूर्च- शब्दो नानार्थः । तत्र श्मश्रु इत्येकोऽर्थः, नासङ्गतानि हि प्रवयसः पितामहस्य प्रतीहाराणाम् अतिलम्बीनि श्मश्रूणि । कुशमुष्टिरिति द्वितीयः, तत्स्वरूपञ्च— छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसंख्यकाः । ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्चमिहोच्यते ॥

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक) · पृष्ठ 149, कुल 335 में से · BharatKosha