रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 149, कुल 335 में से
संदर्भ में पढ़ें६२ देवतामूर्त्तिप्रकरणम् नीलोत्पलदलाभासः सामवेदो हयाननः । अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः ॥ ११ ॥ इति सामवेदः । अथर्वणाभिधो वेदो धवलो मर्कटाननः । अक्षसूत्रञ्च खट्वाङ्गं बिभ्राणो विजयश्रिये ॥ १२ ॥ इत्यथर्वणः । नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाधरम् । अक्षसूत्रं त्रिशूलञ्च बिभ्राणं तं (तत् ?) त्रिलोचनम् ॥१३॥ इति नृत्यशास्त्रम् । [ अथ ब्रह्मायतनेऽन्यदेवतापदम् ] आग्नेय्यां तु गणं प्रोक्तं मातृस्थानञ्च दक्षिणे । नैर्ऋत्ये तु सहस्राक्षं वारुण्यां जलशायिनम् ॥ १४ ॥ वायव्ये पार्वतीरुद्रौ गृहा ( ग्रहा ? ) श्चैवोत्तरे स्मृताः । ईशाने च श्रिया देवी प्राच्यान्तु धरणीधरः ॥ १५ ॥ [ अथ ब्रह्मणोऽष्टौ प्रतीहाराः ] ब्रह्मणो ( णोऽ ?) ष्टौ प्रतीहाराः कथयिष्याम्यनुक्रमात् । पुरुषाकारगम्भीराः सकूर्ची ( र्चा ?) मुकुटोज्ज्वलाः ॥ १६ ॥ १४-१५ । अत्र द्वितीयान्तानां पदानां कल्पयेदित्यध्याहृतक्रिययाऽन्वयः, गणं प्रोक्तमिति शास्त्रान्तरे कथितं गणदेवमित्यर्थः । श्रिया देवीत्यभेदे तृतीया श्रीदेवीत्यर्थः । १६ । पूर्वं ब्रह्मणश्चतुरो भेदान् दर्शयन्नपि साम्प्रतं ब्रह्मत्वेनैक्यं परिकल्पयन् अष्टौ प्रतीहारा- नाह—ब्रह्मण इति । तत्राऽऽदौ सर्वसाधारणं विशेषणत्रयमाह—पुरुषेत्यादि । सकूर्चा इति । कूर्च- शब्दो नानार्थः । तत्र श्मश्रु इत्येकोऽर्थः, नासङ्गतानि हि प्रवयसः पितामहस्य प्रतीहाराणाम् अतिलम्बीनि श्मश्रूणि । कुशमुष्टिरिति द्वितीयः, तत्स्वरूपञ्च— छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसंख्यकाः । ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्चमिहोच्यते ॥