रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 150, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः ६३ पद्मं सृ (स्रु ?) चाऽक्षरं दंश (दंशं ?) सप्तनामा तु वामतः । सव्यापसव्ययोगेन कमण्डलुश्च ( अ ? ) धर्मकः ॥ १७ ॥ अक्षपद्मवामदण्डकमलश्च ( अ ? ) महतोद्भवः (मतोद्भवः ?) । दण्डागमस्रवाक्कालं (स्रुचा कालं ?) जयश्च सर्वकामदः ॥१८॥ इत्युक्तलक्षणम् । नायुक्तञ्च वेदमूर्तेर्वैदिकधुरीणस्य द्रुहिणस्य प्रतीहाराणामपि वेदोक्तकर्म- निर्वाहसाहायकार्थं कुशमुष्टिधारणम् । तूलिकेति तृतीयोऽर्थः । सा च वृषश्रवणरोमभिर्वा खरकेशैर्वा तन्तुभिर्वा घटिता उडुम्बराङ्कुराकारा वटाङ्कुराकारा प्लक्षसूचीनिभा वेति शिल्प- शास्त्रादवगम्यते । तथा च समराङ्गणसूत्रधारे—अ० ७३ । १५-१६, १८-१९ श्लो० । ‘कूर्चकं धारयेद्धीमान् वृषश्रवणरोमभिः ॥’ ‘वल्कलैर्वा विधातव्यः खरकेशैस्तथापि वा ॥’ ‘तन्तुतः कूर्चकः श्रेष्ठो विलेखाकर्मणि स्वतः ।’ ‘आद्यो वटाङ्कुराकारस्ततोऽश्वत्थाङ्कुराकृतिः ॥’ ( संशोधितः पाठः ) ‘प्लक्षसूचीनिभश्चान्यः * * * * * ।’ उडुम्बराङ्कुराकारः * * * * * ॥’ इति कूर्चविषयं वर्णनमुपलभ्यते । नानुचितञ्च विश्वसृजः प्रतीहाराणाम् अङ्कनोपयोगिन्या- स्तूलिकाया ग्रहणम्, प्रभोः प्रतीहाराद्यनुजीविनामपि प्रभुसम्मतवेषभूषादीनां लोकतः शास्त्रतश्चानु- शीलयितव्यत्वात् । एतेऽर्था दिग्दर्शनार्थमस्माभिरुपक्षिप्ताः, अन्यतरार्थग्रहणपरिहारयोस्तु सुधियः प्रमाणम् । इदमत्रावधेयम्—यदि नाम कूर्चं धार्यवस्तुविशेषः स्यात्तदा परतः प्रोक्तैः प्रहरणादिभि- र्व्यावृतबाहुभिरेतैः क्व नाम तद् धार्यमिति श्मश्र्वर्थक एव कूर्चशब्दोऽत्र श्लिष्टः स्यात् । १७। एवं तेषां साधारणीमाकृतिमभिधाय इदानीं तेषां प्रातिस्विकं लक्षणमाह— पद्ममित्यादि । त एते सर्व एव चतुर्हस्ता सव्यापसव्ययोरूर्ध्वाधःक्रमेण यथोक्तप्रहरणादिधारिणो ब्रह्मणः सव्येऽपसव्ये च चतुश्चतुःक्रमेणावस्थिताः । तत्र वामे प्रथमतः सप्तनामा वामदक्षिणयो- र्हस्तयोः पद्मम्, स्रुचाम्, अक्षरम्, वेदम्, दंशम् द