रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 151, कुल 335 में से
संदर्भ में पढ़ें६४ देवतामूर्त्तिप्रकरणम् अक्षसूत्रं गदाखेटं दण्डञ्च विजयो भवेत् ( दधत् ? ) । अधोहस्तापसव्येन खड्गयुग् यज्ञभद्रकः ॥ १९ ॥ अक्षपाशाङ्कुशा(शान् ?)दण्डभयश्च (दण्डं भवश्च ?) सर्वकामदः । दण्डाङ्कुशपाशोत्पलनिभवः (पलं विभवः ?) सर्वशान्तिदः ॥२०॥ [ अथ द्वादश सूर्यमूर्त्तयः ] शृणु वत्स प्रवक्ष्यामि सूर्यभेदांश्च ते जय । यावत्प्रकाशकः सूर्यो यावन्मूर्त्तिभिरीरितः ॥ २१ ॥ वस्तुतो द्विरुल्लेखः समुपलभ्यते । 'वास' इति पदमप्यनन्वयि । अत्र 'प्रियोद्भव' इति पाठो रूपमण्डने ( रूप-अ० २,१९ श्लो० ) । २०। तदेवं वामतश्चत्वारः सप्त-धर्मक-मतोद्भव-जयनामानो ब्रह्मणः प्रतीहाराः, दक्षिणत- श्चत्वारो विजय-यज्ञभद्रक-भव-विभवनामानश्च निर्दिष्टाः । २१। इदानीं द्वादश सूर्यमूर्तीराह—शृण्विति । जय इति वत्सेत्यनेनोद्दिष्टस्य सम्बोध्यस्य नाम । यद्वा जय सर्वोत्कर्षेण वर्त्तस्वेत्यर्थः । ते प्रवक्ष्यामीत्यन्वयः । यावदिति समस्तवस्तुप्रकाशक इत्यर्थः । यावन्मूर्त्तिभिरीरितः कथितस्तावतीर्मूर्त्तीश्च प्रवक्ष्यामीत्यर्थः । सर्वा एवैता मूर्त्तयश्चतुर्बाहव इति ज्ञायते धार्यद्रव्याणामाधिक्यदर्शनात् ; तथा— 'पद्मद्वयाभयवरान् दधतं कराब्जैः' इत्यन्यत्र 'कराब्जैरि'त्यनेन दोष्णां द्व्यधिकत्वलाभाच्च । अत्र पूष्णो मूर्त्तिद्विभुजा केवलपद्मद्वयलाञ्छिता च, वैष्णवी मूर्त्तिरपि द्विकरा, परं तस्या दक्षिणकरे चक्रमितरत्र पद्ममिति विशेषः । तदितरत्र सर्वांसामेव मूर्तीनां करद्वये नीरजद्वयमन्ययोश्च यथोक्तद्रव्याणीति । अग्निपुराणेऽपि— 'वरदा द्वाब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात् ।' ( अ० ५१,३ श्लो० ) इति । ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् । मसीभाजनलेखन्यौ बिभ्रत् * * * ॥ ( अ० ५१,१ श्लो० ) । इत्यनेन च तन्मूर्तीनां चतुर्बाहुत्वस्य सूचितत्वात् । एतेन काश्यपशिल्पे— द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः । रक्तमण्डलसंयुक्ताः करण्डमुकुटान्विताः ॥ ( अ० ४८,७९-८० श्लो० ) इति यद् द्विकरत्वं भास्करमूर्तीनामुक्तं तन्मतान्तरप्रदर्शनमिति कृत्वा सोढव्यम् ।