रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 152, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः ६५ दक्षिणे पौष्करा(री ?) माला करे वामे कमण्डलुः । पद्माभ्यां शोभितकरौ(रा ?) सुधामा(ता ?) प्रथमा स्मृता ॥२२ शूली(लं ?) वामकरे यस्य(स्या ?) दक्षिणे सोम एव च । मित्रा नाम त्रिनयना कुशेशयविभूषिता ॥ २३ ॥ प्रथमे तु करे चक्रं तथा वामे च कौमुदी । मूर्त्तिरार्यमणी ज्ञेया सपद्मौ पाणिवल्लभौ (पल्लवौ ?) ॥२४॥ अक्षमाला करे चास्य ( यस्या ? ) वज्रं वामे प्रतिष्ठितम् । सा मूर्त्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥ २५ ॥ चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः । सा वारुणी भवेन्मूर्त्तिः पद्मव्यग्रकरद्वया ॥ २६ ॥ कमण्डलुं द(लुर्द ?)क्षिणतोऽक्षमाला चैव वामतः । सा भवेत् सस्मिता सूर्यमूर्त्तिः पद्मविभूषिता ॥ २७ ॥ यस्यास्तु दक्षिणे शूलं वामहस्ते सुदर्शनम् । भर्ग (ग ?) मूर्त्तिः समाख्याता पद्महस्ता शुभाय वै ॥ २८ ॥ २२ । उपरिष्टाच्चतुस्त्रिंशश्लोके समुद्दिष्टानां भास्करमूर्तीनामनुक्रमेण लक्षणानि वक्तुं प्रथमा- माह—दक्षिण इति । यस्या इत्यध्याहारः । यस्या दक्षिणे करे पौष्करी कमलग्रथिता माला, वामे करे कमण्डलुर्वर्त्तत इत्यर्थः । इमौ च करावूर्ध्वाविति ज्ञेयम्, ऊर्ध्वक्रमेणैव धारणीयद्रव्याणां कथनौचित्यात् । पद्माभ्यां शोभितकराविति वामदक्षिणयोरधःकरावित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् । 'पद्माभ्यां शोभितकरे'त्युचितः पाठः । सुधातेति । अत्र 'सुधाते'ति वा 'सुधामे'ति वा पाठो भवतु, उभयथाऽपि दोषानुषङ्गो दुष्परिहर एव, उद्देशश्लोके 'धाते'ति पाठस्योपलब्धेः । अत्र ब्रूमः—'सुधाते'त्येव पाठो ज्यायान्, परिगणनश्लोकस्थितधातृशब्दसाम्यात् ; छन्दोभङ्गदोषोत्सारणाय चोपपदं प्रक्षिप्तमिति ; तदेतत् सुलभमेव प्राचीनग्रन्थकृतां कृतिष्विति । : २३ । दक्षिणे सोम इति, सोमः सोमरसोऽमृतं वा । देवता—६