भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 152, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 152

चतुर्थोऽध्यायः ६५ दक्षिणे पौष्करा(री ?) माला करे वामे कमण्डलुः । पद्माभ्यां शोभितकरौ(रा ?) सुधामा(ता ?) प्रथमा स्मृता ॥२२ शूली(लं ?) वामकरे यस्य(स्या ?) दक्षिणे सोम एव च । मित्रा नाम त्रिनयना कुशेशयविभूषिता ॥ २३ ॥ प्रथमे तु करे चक्रं तथा वामे च कौमुदी । मूर्त्तिरार्यमणी ज्ञेया सपद्मौ पाणिवल्लभौ (पल्लवौ ?) ॥२४॥ अक्षमाला करे चास्य ( यस्या ? ) वज्रं वामे प्रतिष्ठितम् । सा मूर्त्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥ २५ ॥ चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः । सा वारुणी भवेन्मूर्त्तिः पद्मव्यग्रकरद्वया ॥ २६ ॥ कमण्डलुं द(लुर्द ?)क्षिणतोऽक्षमाला चैव वामतः । सा भवेत् सस्मिता सूर्यमूर्त्तिः पद्मविभूषिता ॥ २७ ॥ यस्यास्तु दक्षिणे शूलं वामहस्ते सुदर्शनम् । भर्ग (ग ?) मूर्त्तिः समाख्याता पद्महस्ता शुभाय वै ॥ २८ ॥ २२ । उपरिष्टाच्चतुस्त्रिंशश्लोके समुद्दिष्टानां भास्करमूर्तीनामनुक्रमेण लक्षणानि वक्तुं प्रथमा- माह—दक्षिण इति । यस्या इत्यध्याहारः । यस्या दक्षिणे करे पौष्करी कमलग्रथिता माला, वामे करे कमण्डलुर्वर्त्तत इत्यर्थः । इमौ च करावूर्ध्वाविति ज्ञेयम्, ऊर्ध्वक्रमेणैव धारणीयद्रव्याणां कथनौचित्यात् । पद्माभ्यां शोभितकराविति वामदक्षिणयोरधःकरावित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् । 'पद्माभ्यां शोभितकरे'त्युचितः पाठः । सुधातेति । अत्र 'सुधाते'ति वा 'सुधामे'ति वा पाठो भवतु, उभयथाऽपि दोषानुषङ्गो दुष्परिहर एव, उद्देशश्लोके 'धाते'ति पाठस्योपलब्धेः । अत्र ब्रूमः—'सुधाते'त्येव पाठो ज्यायान्, परिगणनश्लोकस्थितधातृशब्दसाम्यात् ; छन्दोभङ्गदोषोत्सारणाय चोपपदं प्रक्षिप्तमिति ; तदेतत् सुलभमेव प्राचीनग्रन्थकृतां कृतिष्विति । : २३ । दक्षिणे सोम इति, सोमः सोमरसोऽमृतं वा । देवता—६