रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 154, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः ६७ [ अथ सूर्यायतनम् ] सूर्यो विनायको विष्णुश्चण्डी शम्भुस्तथैव च । अनुक्रमेण पूज्यन्ते फलदाः स्युः सदाऽर्चने ॥ ३५ ॥ आग्नेय(ये ?) तु कुजः स्थाप्यो गुरुर्याम्ये प्रतिष्ठितः । नैर्ऋत्ये राहुसंस्थानं शुक्रस्थानञ्च पश्चिमे ॥ ३६ ॥ वायव्ये केतुसंस्थानं सौम्यायां बुध एव च । ईशाने च शनिः स्थाप्यः × ×श्च चन्द्रमाः ॥ ३७ ॥ इति सूर्यायतनम्। इति धातृ-सवितृ-त्वष्टृ-वरुण-सूर्य-मित्र-विष्णूनां सप्तानां साम्येन, भग-तपन-गभस्तिक-रवि- पर्जन्यानां पञ्चानाञ्च भिन्नतया नामान्युपलभ्यन्ते । ३५ । सूर्यस्यायतने वक्तव्ये प्रसङ्गात्तदर्चनायाः सर्वदेवार्चनमुखत्वं वक्तुं समभिव्याहृताना- मन्येषामपि तथात्वमाह—सूर्य इति । अनुक्रमेण पूज्यन्ते चेद् एते अर्चने सर्वदेवपूजाविधौ फलदाः स्युः, सर्वदेवपूजास्वेवाऽऽदावेते पूजनीया इत्यर्थः । तथा च स्मृतिः— गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् । पूजयेद्देवषट्कञ्च ततः पूजां समाचरेत् ॥ इति । अत्र च वह्निं निहुवानेन ग्रन्थकृता अपक्रमन् क्रमोऽपि नारक्षीति विभावनीयम् । यच्च तन्त्रान्तरे— आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् । नारायणं विशुद्धाख्यमन्ते च कुलदेवताः ॥ इति प्रकृतश्लोकवदेव पञ्चदेवार्चनं विहितम्, तत्राप्यस्ति क्रमविपर्यय इति नवीनोऽयं पूजापर्यायः । ३६-३७ । आयतने ग्रहसंस्थानमाह—आग्नेय इति । कुज-गुरु-राहु-शुक्र-केतु-बुध-शनि- चन्द्राः क्रमेणाऽऽग्नेयत ऐन्द्रीं यावत् स्थाप्या इत्यर्थः । तथा च रूपमण्डने— सूर्यस्याऽऽयतने स्थाप्या वह्निकोणादितः क्रमात् । कुजो जीवस्तमः शुक्रः केतवो ज्ञः शनिः शशी ॥ (अ० २,२५ श्लो०) इति । तमो राहुः, ज्ञो बुधः । एवञ्च—‘ईशाने च शनिः स्थाप्यः’ इत्यनन्तरं स्खलनस्थाने— ‘प्राच्यां स्थाप्य’ इत्यक्षरचतुष्टयं त्रुटितं स्यादित्यनुमीयते ।