रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 155, कुल 335 में से
संदर्भ में पढ़ें६८ देवतामूर्तिप्रकरणम् [ अथ सूर्यप्रतीहाराः ] सूर्येकदन्ताच्युतशक्तिरुद्रा विघ्नेशशक्तीश्वरविष्णुसूर्याः । श्रीनाथविघ्नेशभगाम्बिकेश(रः?) चण्डीशहेरम्बपतङ्गकृष्णा(ः?) ॥ ३८ श्रीकण्ठसूर्या रुद्रस्थाम्बिकाज(?) तद्दक्षिणमध्यादिदिक्षु पूज्याः । स्वस्थानगाः सर्वमनोरथांस्ते यान्ति विघ्नातिपरसंस्थाः(?) ॥ ३९ ॥ दण्डी च पिङ्गलश्चैव आनन्दश्चान्तकस्तथा । चित्रो विचित्रो ज्ञातव्यः किरणाक्षः सुलोचनः ॥ ४० ॥ सर्वे च पुरुषाकाराः कर्त्तव्याः शान्तिमिच्छता । चतुर्द्वारेषु च स्थाप्या दिशाञ्चैव प्रदक्षिणे ॥ ४१ ॥ सुज्ञानार्थमथः सूर्यायतनं चित्रारूढमुपस्थाप्यते—
| ऐशान्यां
शनैश्चरः | पू० चन्द्रः
दण्डी, पिङ्गलः | आग्नेय्यां
कुजः |

| उ० बुधः
किरणाक्षः,
सुलोचनः | सूर्यः | द० गुरुः
आनन्दः,
चण्डकः |
| वायव्यां
केतुः | प० शुक्रः
चित्रः,
विचित्रः | नैर्ऋत्यां
राहुः |
३८-३९ । पञ्चपादीयं पञ्चानां सूर्येकदन्ताच्युतशक्तिरुद्राणां क्रमादेकैकप्राथम्येन निर्देशमनु- भवितुं प्रवृत्ता क्रमोत्क्रमाभ्यां सर्वत्रैकमेवार्थं प्रतिपादयतीति दृश्यते । किमत्र तात्पर्यमिति प्रश्ने—य इमे देवमुख्यास्तेषामायतनेषु त एव विभक्तविभागेनावस्थिताः फलदायकाः स्युः, तत्रापि यस्यायतनं तस्य प्राङ्निर्देशार्थमयमुद्यम इत्येवास्माकं प्रतिवचनविभवः । श्रीकण्ठेत्यादिश्लोकस्य तु दुष्करः पाठोद्धारः । प्रथमे पादे एवं ह्यर्थः सुस्थितः स्यात्— 'श्रीकण्ठसूर्येषमुखाम्बिकाजाः' इति । चतुर्थपादन्तु दुरुहमेव । ४०-४१ । दण्ड्यादयोऽष्टौ द्वारदेवताः पूर्वादिद्वारक्रमेण द्विशः संस्थाप्याः । एवञ्च 'दिशाञ्चैव प्रदक्षिणे' इत्यत्र 'द्विशश्चैव प्रदक्षिणात्' इति पाठः सकल्पः । तथा चैते प्राग्दक्षिण्येन द्वौ द्वौ कृत्वा