भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 156, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 156

चतुर्थोऽध्यायः ६६ प्रतर्जन्यूर्ध्वकिरणं ताम्रचूडं दण्डायुधम् । दण्डी वामविभागे तु पिङ्गलः स्यादतः शृणु ॥ ४२ ॥ (किरणस्थाने ? किरणे तु) यदा शक्तिः किरणं ताम्रचूडके । तर्जनीदण्डपूर्वश्च पिङ्गलः पूर्वदक्षिणे ॥ ४३ ॥ तर्जनी द्वौ वक्त्रानां (?) दण्डेनानन्दकः स्मृतः । तर्जनीदण्डापसव्यं सव्यवेदान्तकाशुभाः ॥ ४४ ॥ तर्जना द्वौपमनी दण्डं दण्डान्ते चित्रका भवेत् । तर्जनीदण्डापसव्यं स भवेतद्विचित्रकः ॥ ४५ ॥ तर्जनी द्वौ किरणं (?) दण्डान्तकिरणोद्भवे । तर्जनीदण्डापसव्ये कर्त्तव्यः स सुलोचनः ॥ ४६ ॥ [ चन्द्रः ] चन्द्रश्चित्रे विधातव्यः श्वेतः श्वेताम्बरावृतः । दशश्वेताश्वसंयुक्त आरूढः स्यन्दने शुभः ॥ ४७ ॥ द्विभुजो दक्षिणे पाणौ गदां बिभ्रद् यथादरम् । वामस्तु वरदो हस्त इति चन्द्रो निरूप्यते ॥ ४८ ॥ [ भौमः ] धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि । चतुर्भुजो मेषगमश्चाङ्गारसदृशद्युतिः ॥ ४६ ॥ चतुर्द्वा रेषु संस्थाप्या इत्यर्थः । 'चतुर्द्वारेषु संस्थाप्या दिशश्चैते प्रदक्षिणम्' इति रूपमण्डने ( अ० २, श्लो० ३०) पाठः । ४२-४६ । पञ्चश्लोक्या तेषां दण्ड्यादीनामायुधानि पूर्वोद्दिष्टायाः प्रादक्षिण्‍येन स्थितेः प्रकारञ्चाऽऽह—प्रतर्जन्यूर्द्ध्वकिरणमिति । पाठवैकल्यादकल्पेनाप्यस्य यथायथमर्थाविष्कारे नेदं दुष्परिष्कार्यं यत् प्रतर्जन्यादीनि अवयवस्वरूपेण वा आयुधस्वरूपेण वा दण्ड्यादीन् प्रतीहारान् विशिषन्तीति । तत्र पूर्वद्वारे दण्डिनो दक्षिणे पिङ्गलकः, दक्षिणद्वारे आनन्दस्य दक्षिणे चण्डकः, पश्चिमद्वारे चित्रस्य दक्षिणे विचित्रः, उत्तरे किरणाक्षस्य दक्षिणे सुलोचन इति पूर्वोक्तप्रदक्षिण- पदार्थः । रूपमण्डनीयपाठस्त्वेतस्माद्विशिष्यते (रूप० २ अ० २६-३० श्लो० ) । ४९-५० । अङ्गारसदृशद्युतिरिति ज्वलदङ्गारगौरवपुरित्यर्थः, तन्त्रान्तरेऽस्य लोहितवर्णत्व-