रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 157, कुल 335 में से
संदर्भ में पढ़ें७० देवतामूर्तिप्रकरणम् दक्षिणं बुभ्रगं हस्तं वरदं परिकल्पयेत् । ऊर्ध्वं शक्तिसमायुक्तं वामौ शूलगदाधरौ ॥ ५० ॥ [ बुधः ] सिंहारूढं बुधं वक्ष्ये कर्णिकारसमप्रभम् । पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् ॥ ५१ ॥ वरदं खड्गसंयुक्तं खेटकेन समन्वितम् । गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् ॥ ५२ ॥ [ बृहस्पति-शुक्रौ ] पीतो देवगुरुर्लेख्यः शुभ्रश्च भृगुनन्दनः । चतुर्भिर्बाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥ ५३ ॥ वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा । दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् ॥ ५४ ॥ [ शनिः ] शौरितिलसम्यमासं (शौरिं तिलसमाभासं ?) गृध्रारूढं चतुर्भुजम् । वरदं बाणसंयुक्तं चापशूलधरं लिखेत् ॥ ५५ ॥ स्योक्तत्वात् । बुध्रगमिति, बुध्नो बुध्नमूलम् । हस्तमिति अधोहस्तम् । यद्वा बुध्रपदेनात्र लक्षणयाऽधोदेशो ग्राह्यः, दक्षिणाधोहस्तं वरदं परिकल्पयेदित्यर्थः । 'पुस्तकं हस्तम्' इति शिल्परत्ने, 'बुद्धकं' इति 'तद्वरं' इति तत्पादटिप्पण्यां पाठान्तराणि दृश्यन्ते । (शिल्प० उ० २८।१४५ श्लो०) । अयं शक्तिवराभयगदाधारीति शब्दकल्पद्रुमधृतग्रहयागतत्त्ववृजातकादयः । ५३-५४ । तुल्यबाहुत्वात्तुल्यप्रहरणत्वाच्च बृहस्पतिशुक्रौ तन्त्रेणाऽऽह—पीत इत्यादि । वरदावित्यादि द्विवचनन्तूभयापेक्षया, एवं 'बाहू' इत्यत्रापि । परमार्थतस्त्वनयोः प्रत्येकं चत्वारो बाहवश्चत्वारि चाऽऽयुधानीति ज्ञातव्यम् । एवञ्च वरोऽक्षसूत्रं कमण्डलुर्दण्डश्चेति बृहस्पतेस्तान्येव च दैत्यगुरोरप्यायुधानीति ।