रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 160, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः ७३ [ ईशानः ] वरश्चैव त्रिशूलश्च नागेन्द्रं बीजपूरकम् । वृषारूढं प्रकर्त्तव्यमीशानं (मिल ? मन्त्रि)कोणके ॥ ६६ ॥ इति दश दिक्पालाः । यस्माद् ब्रह्मा वेदविद्याः समस्ता आदित्याद्याः खेचरा धिष्ण्यचक्रम् । दिक्पालार्थं व्यक्तरूपञ्च जातं (वन्द्ये?न्यो) विष्णुर्विश्वसृक् पाल(कस्यः ? कोऽसौ) ॥६७॥ इति दोता(ध्व?त्म)जसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्त्तिप्रकरणे रूपावतारे ब्रह्म-सूर्य-नवग्रह-दशदिक्पालाधिकार- श्चतुर्थोऽध्यायः ॥ ४ ॥ ६६ । मन्त्रिकोणके इति देवमन्त्रिणो बृहस्पतेः कोणे ईशानदिशीत्यर्थः । ६७ । यस्माद् ब्रह्मादिव्यक्तरूपान्तं जगज्जातम् असौ विश्वसृक् पालकश्च 'विष्णुर्वन्द्य इत्यन्वयः । खेचरा ग्रहाः, धिष्ण्यचक्रं नक्षत्रमण्डलम्, व्यक्तरूपं भूतलम् । देवता—१०