रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 167, कुल 335 में से
संदर्भ में पढ़ें८० देवतामूर्त्तिप्रकरणम् अथ चक्र[विशेष]लक्षणानि [ तत्र वासुदेवः ] द्वारदेशे समे चक्रे दृश्यते नान्त(रायिके ? रीयके) । वासुदेवः स विज्ञेयः शुक्लाभः स्यां(चा?)तितेजसा ॥ २६ ॥ [ सङ्कर्षणः ] (द्वौ चक्रावेकलग्नौ ? द्वे चक्रे एकलग्ने) तु पूर्वभागस्तु पुष्क(लः?लम्) । सङ्कर्षणाख्यो विज्ञेयो रक्ता(भि ? भ)श्चातितेजसा ॥ २७ ॥ [ प्रद्युम्नः ] प्रद्युम्नः सूक्ष्मचक्रस्तु पीतदीप्तिस्तथैव च । सुषिरं छिद्रबहुलं दीर्घाकारन्तु यद् भवेत् ॥ २८ ॥ [ अनिरुद्धः ] अनिरुद्धस्तु नीलाभो वर्त्तुलश्चातिशोभनः । (रेप्यायां ? रेखाणां) त्रितयं (द्वारं ? द्वारे) पृष्ठं पद्मेन लाञ्छितम् ॥ [ एतेषां पूजाधिकारिणः ] ब्राह्मणैर्वासुदेवस्तु नृपैः सङ्कर्षणस्तथा । प्रद्युम्नः पूज्यते वैश्यैरनिरुद्धस्तु शूद्रकैः ॥ ३० ॥ चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः । वैश्यैर्द्वावेव संपूज्यौ तथैकः शूद्रजातिभिः ॥ ३१ ॥ २६ । चक्रभेदान् विवक्षुर्वासुदेवमाह—द्वारदेश इति । नान्तरीयेके इति चक्रद्वयं परस्पर- लग्नमित्यर्थः । अतितेजसेति विशेषणे तृतीया, अतितेज उपलक्षित इत्यर्थः । २७ । ‘द्वे चक्रे अग्रलग्ने तु पूर्वभागे च पुष्करम् । सङ्कर्षणाख्यो विज्ञेयो रक्ताभश्चातिशोभनः ॥’ इति प्राणतोषणी । पुष्कलमिति र-लयोरभेदात् पुष्करमिति ज्ञेयम्, पुष्करमाकाशं छिद्रमित्यर्थः । २९ । एता द्विचक्रा इति प्राणतोषणीतो ज्ञायते । ३० । एवं चत्वारि चक्राणि निरूप्य प्रसङ्गात्तेषां पूजाधिकारिण आह—ब्राह्मणैरिति द्वाभ्याम् । ३१ । अन्यत्रोऽयं श्लोकः, शालग्रामाः समाः पूज्या विषमा न कदाचन । समेषु न द्वयं पूज्यं विषमेष्वेक एव हि ॥ इति स्मृत्यन्तरधृतवचनस्यापवादविधया हेमाद्रावुक्त इति वीरमित्रोदयाज् ज्ञायते । अत्र चायं वासुदेवादिपूजाप्रकारः—