भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 168, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 168

पञ्चमोऽध्यायः ८१ [ त्रिवक्रलक्ष्मीनारायणः ] लक्ष्मीनारायणो देवस्त्रिभिश्चक्रैर्व्यवस्थितः । पूजनीयः प्रयत्नेन भुक्तिमुक्तिफलप्रदः ॥ ३२ ॥ [ मधुसूदनः ] नाभिपाश्र्वे शङ्खपद्मं यस्य मुद्रा प्रदृश्यते । मधुसूदन आख्यातः शत्रुहा परिकीर्त्तितः ॥ ३३ ॥ [ दामोदरः ] स्थूलो दामोदरो ज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु सः । चक्रे तु मध्यरेखः स्यात् पूजितः सुखदः सदा ॥ ३४ ॥ [ द्विचक्रलक्ष्मीनृसिंहः ] वामपाश्र्वस्थिते चक्रे कृष्णवर्णे सबिन्दुके । लक्ष्मीनृसिंहो विख्यातो भुक्तिमुक्तिफलप्रदः ॥ ३५ ॥ [ द्विचक्रपुरुषोत्तमः ] सुवृत्तुलं तथा पीतं पृष्ठे तु सुषिरं ध्रुवम् । विदिक्षु दिक्षु सर्वासु मुखं यस्यैव दृश्यते । स देवदेवो विज्ञेयः पुराणः पुरुषोत्तमः ॥ ३६ ॥ [ एकचक्रे वर्णकृतो विशेषः ] शुक्लो रक्तस्तथा कृष्णो द्विवर्णो बहुवर्णभाक् । एक (वस्त्वैक ? चक्रस्य) पञ्चैताः संज्ञाः स्युः पञ्च यथाक्रमम् ॥ ब्राह्मणैर्वासुदेवः पूज्यते इत्ययमेषामसाधारणोऽधिकारः वर्णगुरुत्वादितरवर्णसाधारणं चक्रपूजन- मप्यविरुद्धम् । एवं नृपैः सङ्कर्षणः पूज्यते इति, अयमेषां क्षत्रियाणां ब्राह्मणसाधारणे वैश्यशूद्रापेक्षयाऽसाधारणोऽधिकारः । ततश्च तैः सङ्कर्षणप्रद्युम्नानिरुद्धाः पूजनीयाः । प्रद्युम्नः पूज्यते वैश्यैरित्येषां शूद्रमात्रापेक्षयाऽसाधारणो ब्राह्मणक्षत्रियसाधारणोऽधिकारः । एवञ्च वैश्यैः प्रद्युम्नानिरुद्धौ पूजनीयौ । अनिरुद्धस्तु शूद्रकैरित्ययमेषां सर्वसाधारणोऽधिकारः । तथाच— शूद्रैरेक एवानिरुद्धः पूजनीय इति फलितोऽर्थः । परं न हि वर्णहीना वर्णोत्तमानां वृत्तिमाददीरन्निति न नृपैर्वासुदेवः पूज्यः, न तु वैश्यैर्वासुदेव- सङ्कर्षणौ, न च शूद्रेण वासुदेवसङ्कर्षणप्रद्युम्ना इति । तदेवाहोत्तरश्लोके—चत्वार इत्यादीति । ३७-३८ । एकचक्रे विशेषमाह—शुक्ल इति । एकचक्रस्य शुक्लादयः पञ्च संज्ञाः देवता—११