रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 172, कुल 335 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ८५ [ कूर्मः ] कूर्म्माङ्कितास्तु ये चक्रा महासन्ततिदायकाः । महार्थकारका दिव्या हरिस्तत्र व्यवस्थितः ॥ ५३ ॥ [ वराहः ] वराहमूर्त्तिसंयुक्तं यदि चक्रं (च ध्यापनम् ? प्रपद्यते) । पूजनाल्लभते राज्यं पृथिव्यामेकराजकम् ॥ ५४ ॥ [ नरसिंहः ] नारसिंहा(ङ्कृतं ? ङ्कितं) चक्रं दुर्लभं भुवि मानवैः । शत्रूणां नाशनं तद्धि क्लेशघ्नं परिकीर्त्तितम् । स्तम्भनं (नर ? पर)सैन्यस्य महामृत्युहरं शुभम् ॥ ५५ ॥ [ वामनः ] अङ्कितं वामनेन स्याच्चक्रं परमशोभनम् । नानावृद्धिकरश्चैतदन्नाद्यं चाक्षयं भवेत् ॥ ५६ ॥ [ जामदग्न्यः ] चक्रमध्ये तु दृश्येत परशुं रामरूपकम् । तज्जामदग्न्यं चक्रं यजतादेकराड्मुखे(?) ॥ ५७ ॥ [ कौशल्यानन्दनः ] चक्रेण दृश्यते ब्रह्मन् बाणकार्मुकभृत् प्रभुः । कौशल्यानन्दनो रामः (सीतायाः ?तृतीयः) परिकीर्त्तितः ॥५८ भज्येतैव । अभिमतश्च क्रमो ग्रन्थकर्तुरिति लक्ष्यते, कथमन्यथा पूर्वं नृसिंहद्वयं निरूप्यापि पुनर्वराहानन्तरं नृसिंहं निरूपयेत् । ५४ । एकराजकमिति राज्यमित्यस्य विशेषणम् , एकच्छत्रं राज्यं साम्राज्यमित्यर्थः । ५५ । नारसिंहाङ्कितमिति नरसिंहाकृतिचिह्नेन चिह्नितमित्यर्थः । ५७ । ‘तज्जामदग्न्यं चक्रं स्याद् यजमानोऽपराङ्मुखः’ इति स्यात् । तादृशं चक्रमर्चयन् जनः क्वचिदपि विषयेऽकृतकृत्यो न भवतीति तदर्थः । ५८ । कौशल्यानन्दनरामलक्षणमाह—चक्रेणेति । एतल्लक्षणं शिलाचक्रबोधिनी- धृतवाराहे—