भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 171, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 171

८४ देवतामूर्तिप्रकरणम् [ कपिलनृसिंहः ] नृसिंहं पीतवर्णाभ-महा(वक्तृं ? चक्रं)मुखे गुरुम् । यतीनां (पूजनं देवं ? पूजनादेव) सत्यलोकप्रदायकम् ॥४७ [ सुदर्शनम् ] द्वे चक्रे पृष्ठदिग्भागे श्यामश्च मधुवर्णकम् । सुदर्शनं शिला नाम पूजितं सुखकामदम् । सान्निध्यं मम मूर्त्या च पूजने च कलाधि(का ? कम्) ॥४८ [ हयग्रीवः ] अश्वाकृतिस्तथा मुद्रा साक्षमाला सपुस्तका । पद्माङ्किता भवेन्मुद्रा हयग्रीवेति विश्रुता ॥ ४६ ॥ जयदुस्स्वशुभासक्तो ननः (?) पापात् प्रमुच्यते । अक्षया च भवेत्तस्य लक्ष्मी रैश्वर्यमुत्तमम् ॥ ५० ॥ [ मत्स्यः ] मत्स्याङ्किता (शुभे ? स्तु ये) चक्रा आयुर्दा( ?) पुष्टिदा नृणाम् । सदा पूज्या गृहस्थेन सन्निधानेऽत्र केशवः ॥ ५१ ॥ [ जनार्दनः ] एकमुखे चतुश्चक्रं चतुश्चक्रो जनार्दनः । पूजनीयः सदा सौख्यमुक्तिदो नात्र संशयः ॥ ५२ ॥ ४७ । अयं कपिलवर्ण इति पद्मपुराणम् । तथाच— कपिलो नरसिंहस्तु पृथुचक्रो महामुखः । ब्रह्मचर्यंण पूज्योऽसौ त्रिबिन्दुः पञ्चबिन्दुकः ॥ इति । ४९-५० । अयमङ्कुशाकार इत्यग्निपुराणादिषु । 'जयदुस्स्वशुभासक्तो ननः' इत्यत्र 'चक्रध्वजसमायुक्तो नरः' इति स्यात् । एवञ्च 'नरः पापात् प्रमुच्यते' इत्येतत्पूजको नर इत्यर्थः । ५२ । अत्र क्रमभङ्गः सम्भाव्यते । हयग्रीवात् परमेवास्य स्थानं निर्देष्टुं युज्यते । दृश्यते हि मत्स्यादारभ्य क्रमेण दशावतारमुद्रा वर्ण्यन्ते, तत्र यद्यन्तरा जनार्दनोपनिपातः स्यात्तन्न क्रमो