भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 175, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 175

८८ देवतामूर्त्तिप्रकरणम् गृध्रोरुजानुचरणः पक्षद्वयविभूषितः । प्रभासंस्थानसौवर्णः कलापेन विवर्जितः ॥ ६५ ॥ नवतालः प्रकर्त्तव्यो गरुडो मानसूत्रवित् । पाद( ?)जानु कटि( ?) यावदर्चायां वाहनस्य दृक् ॥ ६६ ॥ छत्रञ्च कुम्भपूर्णञ्च करयोस्तस्य कारयेत् । करद्वयन्तु कर्त्तव्यं तथा विरचिताञ्जलि ॥ ६७ ॥ यदुश्च भगवान् पृष्ठे छत्रकुम्भधरौ (हरौ ? करौ) । किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः ॥ ६८ ॥ इति पन्नगाशनः । अष्टबाहोर्हरेर्मूर्त्तेरायुधानि वदाम्यहम् । नन्दकश्च गदा बाणः पद्मं दक्षिणबाहुषु । शङ्खो धनुस्तथा चक्रं खेटकं वामबाहुषु ॥ ६६ ॥ त्रिविक्रमो नृसिंहश्च दशतालौ प्रकीर्त्तितौ । वामनः सप्ततालस्तु विप्रमूर्त्तिः क्वचिद् भवेत् ॥ ७० ॥ ६५ । प्रभासंस्थानसौवर्ण इति प्रभासंस्थानाभ्यां कान्तिशरीराभ्यां सौवर्णः सुवर्णमय इव प्रतिभासमानः । 'कलापेन विवर्जित' इत्यत्र 'कलापेन विभूषित' इति रूपमण्डने ( ३।४७ ) पाठः । यद्यपि 'कलापो भूषणे बर्हे' इति कोषान्मयूरपिच्छ एव कलापशब्दो वर्त्तते- तथाऽपि पक्षमात्रार्थ एवात्र प्रयुक्तः । भूषणार्थस्तु न प्रसज्यते । 'विवर्जितः' 'विभूषितः' इत्यनयोः कतरच्छिष्यते इति नावधारयामः । ६६ । द्विधेह वाहनानि विविच्यन्ते, एकं स्थितायाः प्रतिमायाः, अपरमुपविष्ठायाः । द्वितीय- मपि पुनर्द्वैधा भिद्यते, एकमेकस्मिन्नेव पार्श्वे लम्बितचरणायाः, द्वितीयञ्चोभयोरेव पार्श्वयोर्लम्बित- चरणायाः । सङ्कलनेन पुनस्त्रीण्येव वाहनानीति । तत्र स्थिताया अर्चाया वाहनस्य दृष्टिः पादं यावत्, एकपार्श्वलम्बितचरणाया जानु यावत्, उभयतो लम्बितचरणायाः कटिं यावदिति विवेकः । तदेतदाह ग्रन्थकारः पादमिति । अत्र पादपदेन गुल्फपर्यन्तो भागो लक्ष्यते विभागसामर्थ्यात् । ६७ । 'कुम्भपूर्णञ्चे'त्यत्र 'पूर्णकुम्भञ्चे'त्युचितः पाठो रूपमण्डने । ६८ । यदुश्च भगवान् इति यदुवंशीयो भगवान् श्रीकृष्ण इत्यर्थः । 'यादवो भगवान् पृष्ठे छत्रकुम्भधरो हरिः' इति रूपमण्डने विसंष्ठुलः पाठः । ७० । अत्र मत्स्यपुराणम्- दशतालः स्मृतो रामो बलिवैरोचनिस्तथा । वाराहो नरसिंहश्च सप्ततालस्तु वामनः ॥ इति (२५९ अ० १-२ श्लो०)