रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 176, कुल 335 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ८६ कृष्णाजिनोपवीतः स्याच्छत्री (कृत ? धृत)कमण्डलुः । कुण्डली शिखया युक्तः कुब्जाकारो मनोहरः ॥ ७१ ॥ इति वामनः । रामस्तु द्विभुजो रम्यः शरचापधरः प्रभुः । इति रामः । (महा ? नृ)वराहं प्रवक्ष्यामि शूकरास्येन शोभनम् । गदापद्मधरं धात्रीं दंष्ट्राग्रेण समुद्धृताम् ॥ ७२ ॥ बिभ्रा(णा ? णं) कूर्परे वामे विस्मयोत्फुल्ललोचनः । नीलोत्पलधरां देवीमुपरिष्टात् प्रकल्पयेत् ॥ ७३ ॥ दक्षिणं कटिसंस्थञ्च बाहुं तस्य प्रकल्पयेत् । कूर्मपृष्ठे पदञ्चैकमन्यन्नागेन्द्रमूर्धनि ॥ ७४ ॥ शेषश्चतुर्भुजः कार्यस्तथैव रचिताञ्जलिः । कर्त्तव्यौ (शिल ? शीर)मुषलौ करयोस्तस्य चोर्ध्वयोः ॥७५॥ ७५ । शेष इति । 'रचिताञ्जलिरी'त्यनेन नेदं स्वतन्त्रस्य शेषस्य लक्षणमपि तु नृवराहाङ्ग- तया तदग्रे कर्तव्यस्येत्यायाति । अन्यथा नृवराहलक्षणमभिधायान्तरा शेषं लक्षयतः पुनर्नृवराहप्रकारान्तरकथनमनुपपन्नं स्यात् । शिल्परत्ने शेषलक्षणमपहायैव नृवराहस्य लक्षणद्वितयं लिखितं दृश्यते ( शिल्प० उ० २५ अ० ११२-११६ श्लो० ) । मत्स्यपुराणे पुनः किञ्चिद्विलक्षणमेव नृवराहलक्षणमिति तदत्र प्रदर्श्यते— महावराहं वक्ष्यामि पद्महस्तं गदाधरम् ॥ तीक्ष्णदंष्ट्राग्रघोणास्यं मेदिनीवामकूर्परम् । दंष्ट्राग्रेणोद्धृतां दान्तां धरणीमुत्पलान्विताम् ॥ विस्मयोत्फुल्लनयनामुपरिष्टात् प्रकल्पयेत् । दक्षिणं कटि(हस्त ? संस्थ)ञ्च करं तस्याः प्रकल्पयेत् ॥ कूर्भोपरि तथा पादमेकं नागेन्द्रमूर्धनि । संस्तूयमानं लोकेशैः समन्तात् परिकल्पयेत् ॥ इति । ( मत्स्य० २६० अ० २८-३१ श्लो० ) । देवता—१२