भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 176, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 176

पञ्चमोऽध्यायः ८६ कृष्णाजिनोपवीतः स्याच्छत्री (कृत ? धृत)कमण्डलुः । कुण्डली शिखया युक्तः कुब्जाकारो मनोहरः ॥ ७१ ॥ इति वामनः । रामस्तु द्विभुजो रम्यः शरचापधरः प्रभुः । इति रामः । (महा ? नृ)वराहं प्रवक्ष्यामि शूकरास्येन शोभनम् । गदापद्मधरं धात्रीं दंष्ट्राग्रेण समुद्धृताम् ॥ ७२ ॥ बिभ्रा(णा ? णं) कूर्परे वामे विस्मयोत्फुल्ललोचनः । नीलोत्पलधरां देवीमुपरिष्टात् प्रकल्पयेत् ॥ ७३ ॥ दक्षिणं कटिसंस्थञ्च बाहुं तस्य प्रकल्पयेत् । कूर्मपृष्ठे पदञ्चैकमन्यन्नागेन्द्रमूर्धनि ॥ ७४ ॥ शेषश्चतुर्भुजः कार्यस्तथैव रचिताञ्जलिः । कर्त्तव्यौ (शिल ? शीर)मुषलौ करयोस्तस्य चोर्ध्वयोः ॥७५॥ ७५ । शेष इति । 'रचिताञ्जलिरी'त्यनेन नेदं स्वतन्त्रस्य शेषस्य लक्षणमपि तु नृवराहाङ्ग- तया तदग्रे कर्तव्यस्येत्यायाति । अन्यथा नृवराहलक्षणमभिधायान्तरा शेषं लक्षयतः पुनर्नृवराहप्रकारान्तरकथनमनुपपन्नं स्यात् । शिल्परत्ने शेषलक्षणमपहायैव नृवराहस्य लक्षणद्वितयं लिखितं दृश्यते ( शिल्प० उ० २५ अ० ११२-११६ श्लो० ) । मत्स्यपुराणे पुनः किञ्चिद्विलक्षणमेव नृवराहलक्षणमिति तदत्र प्रदर्श्यते— महावराहं वक्ष्यामि पद्महस्तं गदाधरम् ॥ तीक्ष्णदंष्ट्राग्रघोणास्यं मेदिनीवामकूर्परम् । दंष्ट्राग्रेणोद्धृतां दान्तां धरणीमुत्पलान्विताम् ॥ विस्मयोत्फुल्लनयनामुपरिष्टात् प्रकल्पयेत् । दक्षिणं कटि(हस्त ? संस्थ)ञ्च करं तस्याः प्रकल्पयेत् ॥ कूर्भोपरि तथा पादमेकं नागेन्द्रमूर्धनि । संस्तूयमानं लोकेशैः समन्तात् परिकल्पयेत् ॥ इति । ( मत्स्य० २६० अ० २८-३१ श्लो० ) । देवता—१२