भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 177, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 177

६० देवतामूर्त्तिप्रकरणम् [ प्रकारान्तरम् ] अथवा शूकराकारं महाकायं क्वचिल्लिखेत् । तीक्ष्णदंष्ट्रोग्रघोणास्यं स्तब्धकर्णोर्ध्वरोमकम् ॥ ७६ ॥ इति नरवराहः । नरसिंहाकृतिं वक्ष्ये रौद्रसिंहमुखेक्षणाम् । भुजाष्टकसमायुक्तां ध्वजपीनसटाश्रिताम् ॥ ७७ ॥ हिरण्यकशिपुं दैत्यं दारयन्तीं नखाङ्कुरैः । उरोरुपरि विन्य(स्त ?स्य)खड्गखेटकधा(रणा ? रिणा)म् ॥ (तथाऽ ? तस्या)न्त्रमालां निष्कृष्य बाहुयुग्मेन बिभ्रतीम्। आकारं पुरु(षाकस्यै ? षस्यैव)धारयन्तीं मनोहरम् ॥ ७६ ॥ मध्यस्थिताभ्यां बाहुभ्यां दक्षिणे चक्रपङ्कजे । कौमोदकीं तथा शङ्खं बाहुभ्यामिति(नामतः ? वामतः)॥८०॥ अधःस्थिताभ्यां बाहुभ्यां दारयन्तीं प्रकल्पयेत् । ऊर्ध्वस्थिताभ्यां बाहुभ्यामन्त्रमालां तु बिभ्रतीम् ॥ ८१ ॥ नीलोत्पलदलच्छायां चञ्चच्चम्पकप्रभाम् । तप्तकाञ्चनसङ्काशां बालार्कसदृ(शां?र्शीं) लिखेत् ॥ ८२ ॥

७६ । 'स्तब्धकर्णोर्ध्वरोमकम्' इत्यत्र 'स्कन्धकर्णोर्ध्वरोमकम्' इति शिल्परत्ने ( २५ अ० ११६ श्लो० ) पाठः । ७७ । रौद्रसिंहमुखेक्षणामिति भीषणसिंहमुखनेत्रतुल्यमुखनेत्राम् । 'रौद्रपिङ्गमुखेक्षणाम्' इति शिल्परत्नपादटीकाधृतं पाठान्तरम् । ध्वजपीनसटाश्रिताम् इति ध्वजवत्स्थूलकेशरधारिणीम् । 'स्तम्भपीन' इति शिल्परत्ने, 'स्तब्धपीन' इति तत्पादटीकायां पाठः । ७९ । आकारमिति, मुखादधस्तात् पुरुषाकृतिवदाकृतिमित्यर्थः । शिल्परत्ने इदमर्धं नास्ति । ( शिल्प० उ० २५ अ० ११७-१२० श्लो० ) । ८१ । अत्र दारणान्त्रमालाधारणयोरनुवादो बाहुविशेषनियमार्थः । शिल्परत्ने अयमपि श्लोको नरसिंहलक्षणे नास्ति । ८२ । अत्र नीलोत्पलेत्यादिविशेषणत्रयं पक्षान्तरद्योतकम् । 'अथवा चम्पकप्रभाम्'