भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 178, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 178

पञ्चमोऽध्यायः ६१ [ प्रकारान्तरम् ] आसीनं द्विभुजं देवं प्रसन्नवदनेक्षणम् । श्वेतं स्फटिकसङ्काशं चतुर्बाहुमथापि वा ॥८३ ॥ आजानुलम्बितौ बाहू कर्त्तव्यौ तत्र दक्षिणे । समीपे कल्पयेच्चक्रं वामे शेषं समीपतः ॥ ८४ ॥ ऊर्ध्वस्थिताभ्यां बाहुभ्यां दक्षिणे पङ्कजं न्यसेत् । वामे बाहौ गदा रम्या(लिनात् प्र ? लिखेच्चित्र) विशार(दैः ? दः) ॥ ८५ ॥ इति नरसिंहः । जलमध्यगतः कार्यः शेषः पन्नगदर्शनः । फणाम्बुजमहारत्न···शिरो(धृतः ? धरः) ॥ ८६ ॥ इति शिल्परत्ने ( उत्तर० २५ अ० १२० श्लो० ) पाठः । पुराणे तु वर्णकान्त्यादिविषये किमपि नोक्तम् । विशेषतस्तु तत्राऽऽनुषङ्गिकं मूर्त्त्यन्तरमपि कल्पितं दृश्यते । तथा च मात्स्ये— नारसिंहन्तु कर्त्तव्यं भुजाष्टकसमन्वितम् ॥ रौद्रं सिंहा(सनं ? ननं ) तद्वद्विदारितमुखेक्षणम् । स्पृष्टपीनसटाकर्णं दारयन्तं दितेः सुतम् ॥ विनिर्गतान्त्रजालञ्च दानवं परिकल्पयेत् । ( मसन्तं ? मषन्तं ) रुधिरं घोरं भ्रुकुटीवदनेक्षणम् ॥ युध्यमानश्च कर्त्तव्यः क्वचित् करणबन्धनैः । परिश्रान्तेन दैत्येन तर्ज्यमानो मुहुर्मुहुः ॥ दैत्यं प्रदर्शयेत्तत्र खड्गखेटकधारिणम् । स्तूयमानं तथा विष्णुं दर्शयेदमराधिपैः ॥ इति ( २६० अ० ३१—३५ श्लो० ) । ८३-८५ । विशेष्यानुल्लेखात् कस्य लक्षिकेयं श्लोकत्रयीति न प्रतिपद्यामहे । नेयं नरसिंह- लक्षणत्वेनोपलभ्यते शिल्परत्ने । लिखेच्चित्रविशारद इत्यत्र वाक्यार्थः कर्म । ८६ । अयं पूर्व ( ७९ श्लो० ) लक्षिताच्छेषाद्विशिष्यते । अत एव पन्नगदर्शन इत्युक्तम् । पन्नगदर्शन इति सर्पाकृतिरित्यर्थः । जलमध्यगतत्वेनाप्ययं विशिष्यते । 'फणाम्बुजमहारत्ने'- त्यनन्तरं 'दुर्निरीक्षे'ति पतितं स्यात्, विष्णुधर्मोत्तरे ( ३य-खण्ड० ) तथा पाठः ।