भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 185, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 185

३८ देवतामूर्तिप्रकरणम् रक्ताम्बरधरं देवं रक्तयज्ञोपवीतिनम् । रक्तोष्णीषं रक्तनेत्रं रक्तमाल्यानुलेपनम् ॥ ३ ॥ जटाकृतचन्द्रदेवं त्रिनेत्रं तुङ्गनासिकम् । महा(रक्तं?वक्त्रं) महाबाहुं खड्गखेटकधारिणम् ॥ ४ ॥ रक्तास्यं रक्तनयनं रक्तकुण्डलधारिणम् । रक्तालंकारसंयुक्तं स(र्वा?र्पा)भरणभूषितम् ॥ ५ ॥ इति वामदेवः । दंष्ट्राकरालविकटास्यं सर्पशीर्षं विलोचनम् । रुण्डमालाधरं देवं सर्पकुण्डलमेव च ॥ ६ ॥ भुजङ्गकेयूरधरं सर्पहारोपवीतिनम् । योनिशं (?) कटिसूत्रञ्च वृश्चिकामालिका गले ॥ ७ ॥ नीलोत्पलदलश्याममतसीपुष्पसन्निभम् । पिङ्गभ्रूपिङ्गजटिलं शशाङ्ककृतशेखरम् ॥ ८ ॥ तक्षकं पुष्टिकञ्चैव पादौ च नूपुरौ कृतौ (?) । अघोरस्य स्वरूपन्तु कालरूपमिवापरम् ॥ ६ ॥ महावीर्यं महोत्साहमष्टबाहुं महाबलम् । लासयन्तं रिपुबलं निवेशो यत्र भूतले ॥ १० ॥ ६। 'दंष्ट्राकरालवदनम्' इत्येवं कृते छन्दोहानिः पुनरुक्तिश्च परिहृते भवतः । रुण्डमालेति, रुण्डं कबन्धः, 'कबन्धो रुण्डमुच्यते' इति हारावली । ७। योनिशमिति दुरूहार्थस्यास्य पदस्य पाठान्तरमनुसन्धेयम् । वृश्चिकेति दीर्घत्वं छन्दःसौन्दर्यार्थम् । ८। अतसीति क्षुमापुष्पं नीलवर्णम् । ९। तक्षकमिति । अत्र 'तक्षकः पुष्टिकश्चैव पादयोर्नूपुरौ कृतौ' इति सुश्लिष्टार्थकः सम्भाव्य- मानः पाठः । पुष्टिक इति सर्पविशेषस्य नाम, तक्षकः प्रसिद्धः । १०। निवेशो यत्र भूतले इति । यत्र भूभागे देवस्य निवेशः स्थितिरतत्र रिपुबलं त्रासयन्तमित्यर्थः ।