रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 186, कुल 335 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः ६६ खट्वाङ्गं (चक्र ? च क)पालञ्च खेटकं पाशमेव च । वामहस्तेषु कर्त्तव्यं (हस्तानां(?) शस्त्राणां) च चतुष्टयम् ॥११॥ त्रिशूलं परशुं खड्गं (चण्डं (?) चक्रं) चैवारिमर्दनम् । दक्षिणेषु करेपु स्यादेतच्छस्त्रचतुष्टयम् ॥ १२ ॥ इत्यघोरः । पीताम्बरधरं देवं पीतयज्ञोपवीतिनम् । मातु(लि?लु)ङ्गं करे वामे अक्षसूत्रञ्च दक्षिणे ॥ १३ ॥ इति तत्पुरुषः । शुद्धस्फटिकसङ्काशं जटाचन्द्रविभूषितम् । त्र्यक्षं दत्ते त्रिशूलञ्च वामहस्ते कपालिनम् ॥ १४ ॥ इतीशः । कपालमालिनं श्वेतं शशाङ्ककृतशेखरम् । व्याघ्रचर्मधरं भद्रं नागेन्द्रासनभूषितम् ॥ १५ ॥ त्रिशूलं चाक्षसूत्रञ्च कारयेद्दक्षिणे करे । कपालं कुण्डिका पाशं योगमुद्रा करद्वये ॥ १६ ॥ इति मृत्युञ्जयः । एकवक्त्रं त्रिनेत्रं च शशाङ्ककृतशेखरम् । बृहद्भालकपालं च कण्ठग्रीवासुशोभितम् ॥ १७ ॥ चतुर्भुजं महाबाहुं शूलपङ्कजधृत्करम् । दिव्यरूपधरं देवं वरदाभयपाणिकम् ॥ १८ ॥ इति विजयः । चतुर्भुजं महाबाहुं शुक्लाक्षिपाणिपादकम् । पुस्तकाभयहस्तञ्च वरदाक्षं द्विलोचनम् ॥ १६ ॥ इति किरणात् । १६। कुण्डिका कमण्डलुः। योगमुद्रा मुद्राविशेषः। तत्स्वरूपं श्रीतत्त्वचिन्तामणौ षोडशप्रकाशे द्रष्टव्यम् । १९। वरदाक्षमिति वराक्षसूत्रकरमित्यर्थः ।