भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 193, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 193

१०६ देवतामूर्त्तिप्रकरणम् [ धातुलिङ्गनामानि ] (१)मनोहरं (२)श्रीमुखञ्च (३)रुद्रतेजो (४)महोत्सवम् । (५)आनन्दञ्च (६)सुवक्त्राख्यं (७)स्त्रीपुंजं (८)नन्दिवर्धनम् ॥६१॥ [ धातुलिङ्गे विशेषः ] (लोह?लौहं) मिश्रं न कर्त्तव्यं स्वमा(लं योनि?त्रयोनि)संयुक्तम् । [ रत्नलिङ्गम् ] कर्त्तव्यं धातुलिङ्गस्य प्रमाणेन हि रत्नजम् ॥६२॥ इति धातुरत्नलिङ्गानि । अष्टाङ्गुलं समारभ्य ( द्विद्वय ? ष्टाष्टा ) ङ्गुलविवर्धनात् । लौहानि नव लिङ्गानि त्रिहस्तान्तानि कारयेत् ॥ तथाऽष्टाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् । त्रिहस्तान्तानि लिङ्गानि त्रयस्त्रिंशद् भवन्ति हि ॥ ( उत्तरभाग० २ अ० ५४-५५ श्लो० ) इत्यादौ अष्टाङ्गुलवृद्धिभाञ्जि नव लिङ्गानि, अनन्तरञ्च द्विद्व्यङ्गुलवृद्धिभाञ्जि त्रयस्त्रिंशत्संख्य- लिङ्गानीत्युक्तम् । मानन्तुभयत्रैवाष्टाङ्गुलत आरब्धम् । रूपमण्डनेऽपि अष्टाङ्गुलारब्धमानकानि अष्टाङ्गुलवृद्धिमन्ति नवैव लौहलिङ्गानि । तथाच— धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् । त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ इति । ( अ० ४, श्लो० ५१ ) । एवञ्च स्वकृताद् रूपमण्डनात परकृताच्छिल्परत्नाच्चान्यादृशस्यास्य धातवलिङ्गानां लक्षणस्य मूलमन्यत्र शास्त्रान्तरेऽनुसन्धेयम् । ६१ । अष्टानां धातवलिङ्गानां नामान्याह—मनोहरमिति । एतानि नामानि नान्यत्रोप- लभ्यन्ते । एवमुत्तरत्रापि दारुजादिलिङ्गानाम् । शिल्परत्ने अष्टादशलिङ्गनामान्युक्तानि ( शिल्प० उ० अ० २, श्लो० १-५ ) । ६२ । लौहमिति । लौहं धातुजं लिङ्गं मिश्रं धात्वन्तरसंयुक्तं न कर्त्तव्यम् । यद्यपि धातुष्वपि केचनान्योन्यसंकरजन्मानो वर्तन्ते, अत एव तानुद्दिश्य निन्दाऽपि श्रूयते— मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि । पिशाचलोहान्यन्यानि कांस्यादीनीति केचन ॥ इति । ( शिल्प० उ० अ० १ ४१-४२ श्लो० ) तथाऽप्यद्यतनमिश्रणव्यावृत्त्यर्थमेतदित्यनुसन्धेयम् । यद्बोत्तरपादे पीठिकालक्षणघटकीभूत'स्वमात्र'-