रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 192, कुल 335 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः १०५ अथ लिङ्गानि अष्टलोहानि लिङ्गार्थे स्वर्णं रौप्यञ्च ताम्रकम् । कांस्यपित्तलवङ्गानि नागं लोहं तथाऽष्टमम् ॥५९॥ [ धातुलिङ्गमानम् ] एकाङ्गुलाद् धातुमयं यावदष्टाङ्गुलोदयम् । एकैकस्याङ्गुलस्याष्टौ लिङ्गान्राष्टौ ततः पुनः ॥६०॥ ५९ । अथ लिङ्गान्याह—अष्टलोहानीति । एतेऽष्टौ धातव एवाष्टलोहनाम्नाऽभिधीयन्ते लोहशब्दस्य धातुपर्यायेऽन्तःपातात् । तत्र वङ्गं रङ्गापरनामा धातुविशेषः, नागं सीसकम् । लिङ्गफलान्युक्तानि रूपमण्डने ( अ० ४, श्लो० ३७-४१ ) । स्थिरलक्ष्मीप्रदं हेमं रजतञ्चैव राज्यदम् । प्रजावृद्धिकरं ताम्रं वाङ्मायुर्विवर्धनम् ॥ विशेषकारकं कांस्यं पित्तलं भुक्तिमुक्तिदम् । सीसकञ्च शत्रुलिङ्गम् आयसं रिपुनाशनम् ॥ अष्टलोहमयं लिङ्गं कुष्ठरोगक्षयापहम् । त्रिलोहसम्भवं लिङ्गमन्तर्धानप्रसिद्धिदम् ॥ आयुष्यं हीरकं लिङ्गं भोगदं मौक्तिकोद्भवम् । सुखकृत् पुष्परागोत्थं वैदूर्यं शत्रुमर्दनम् ॥ श्रीप्रदं पद्मरागञ्च इन्द्रनीलं यशःप्रदम् । लिङ्गं मणिमयं पुष्ट्यै स्फाटिकं सर्वकामदम् ॥ इति । शिल्परत्नेऽपि प्रायेणैवमेव फलानि । ( शिल्प० उत्तरभाग० अ० १, श्लो० ३८-४१ ) । ६० । एकाङ्गुलादिति । धातुमयानि लिङ्गानि एकाङ्गुलादारभ्य यावदष्टाङ्गुलमुन्नतानि स्युः । एवमष्टौ लिङ्गानि भवेयुः, ततः पुनरेकैकस्याङ्गुलस्याष्टौ लिङ्गानि भवेयुः, स्वर्ण- रौप्यादिभेदेनेत्यर्थः, इति व्युत्क्रमेण व्याख्येयम् । तथा च एकाङ्गुलादष्टाङ्गुलान्तानि स्वर्ण- लिङ्गान्राष्टौ, एवं रजतानि एवं ताम्राणीत्यादि । यद्वा एकैकस्य अङ्गुलस्याष्टौ लिङ्गानीति वक्ष्यमाणमनोहरादिसंज्ञाभेदेनेत्यर्थः, तथाच एकाङ्गुलादष्टाङ्गुलान्तानि मनोहरलिङ्गान्राष्टौ एवं श्रीमुखलिङ्गानीत्यादि । अत्र च पक्षे अविशेषाद् वक्ष्यमाणेषु शैलदारुवादिलिङ्गेष्वप्येवं भेदस्याऽऽवश्यकत्वेनास्योपलक्षणपरत्वं व्याख्येयम् । यद्वा, तृतीयपादे 'एकैकस्याङ्गुल्यस्यर्द्धया' इति कृतशुद्धिः पाठः । ऋद्धिवृद्धिरिति नार्थान्तरम् । तथाच एकाङ्गुलादारभ्य एकैकस्याङ्गुलस्य वृद्ध्या लिङ्गान्राष्टौ भवन्ति । शिल्परत्ने अङ्गुलीनां वृद्धेस्तारतम्यतो लौहलिङ्गस्य द्वैविध्यमुक्तम् । तथाच— देवता—१४