रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 191, कुल 335 में से
संदर्भ में पढ़ें१०४ देवतामूर्तिप्रकरणम् द्वाभ्यां वै गजचर्म स्यान्मुण्डमालाविभूषितम् । (इद?ईदृ)शं कारयेत् प्राज्ञश्चण्डभैरवमुत्तमम् ॥ ५१ ॥ इति चण्डभैरवः । विरूपाक्षस्ततः खड्गं शूलं डमरुमङ्कुशम् । सर्पं चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टके ॥ ५२ ॥ खेटं खट्वाङ्गशक्ति(श्व? श्व) परशुतर्जनीघटम् । घण्टाकपाल(क्तौ?कौ) चेति (वामार्धा?वामोर्ध्वा)दिकराष्टके ॥ ५३ ॥ इति विरूपाक्षः । त्र्यम्बकोऽपि दधच्चक्रं डमरुं (मुदरं ? मुद्गरं) शरम् । शूलाङ्कुशाहिजाप्यञ्च दक्षोर्ध्वादिकराष्टके ॥ ५४ ॥ गदाखट्वाङ्गपात्राणि कार्मुकं तर्ज(नी ? नीं) घटम् । परशुं पट्टिशं चैव वामोर्ध्वादिक्रमेण वै ॥ ५५ ॥ इति त्र्यम्बकः । कार्यो हरिहर(स्या?श्चा)पि दक्षिणाद्धे सदाशिवः । वामार्द्धे च हृषीकेशः श्वेतनीलाकृ(तिः?ती) क्रमात् ॥ ५६ ॥ व(रं?र) त्रिशू(लं?ल) चक्राब्जधारिणो बाहवः क्रमात् । दक्षिणे वृष(भे?भः) पार्श्वे वामे विहगराडिति ॥ ५७ ॥ इति हरि-हरमूर्त्तिः । कृ(ष्णा?ष्ण)शङ्करसंयोगाद् द्वाविंशद्भेद-(मर्जयः ? मूर्त्तयः) । नोदिता ग्रन्थबाहुल्याज् (ज्ञेयादियार्णवा?) बुधैः ॥ ५८ ॥ ५४-५५ । अहिजाप्यमिति अहिः सर्पः जाप्यं जपसाधनमक्षसूत्रमिति यावत् । गदा- खट्वाङ्गेति । पात्रं नृकपालम् । एतेनायं षोडशभुज इति सिद्धम् । पूर्वोक्तो विरूपाक्षोऽपि तथा ।