रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 190, कुल 335 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः १०३ चतुर्वक्त्रमष्टबाहुं चतुष्कैकनिवासिनम् । ऋद्धा(?)मुखगतः कार्यः पद्महस्तो दिवाकरः ॥ ४४ ॥ खट्वाङ्गत्विशूलहस्तो रुद्रो दक्षिणतः शुभः । कमण्डलुश्चाक्षसूत्रमपरस्थः पितामहः ॥ ४५ ॥ शङ्खचक्रधरो हरिर्वामे चैव तु संस्थितः । एवं विधेय(?)कर्त्तव्यं सर्वकामफलप्रदम् ॥ ४६ ॥ इति (सूर्य?)हरिहरपितामहः । षड्भुजञ्च चतुर्वक्त्रं सर्वाभरणभूषितम् । कमण्डलुश्चाक्षसूत्रमुभयोः कमलधृतकरम् ॥ ४७ ॥ मणा(?)लोर्द्धौ युग्महस्ते कर्त्तव्ये शुभलक्षणे । सर्वाभरणसंयुक्तं सर्वकामफलप्रदम् ॥ ४८ ॥ इति चन्द्राङ्कपितामहः । लेलिहन्तं दंष्ट्राकरालं चण्डभैरवमुत्तमम् । एकवक्त्रं शूलहस्तं खड्गशक्तिशराङ्कुशम् ॥ ४९ ॥ वरदं दक्षिणे ज्ञेयं खट्वाङ्गं खेटकं तथा । चापं तथाऽभयं चैव कपालं वामहस्तके ॥ ५० ॥ लक्षणयोर्भिन्नतयैकस्य वस्तुनः प्रतिपादकत्वानुपपत्तेः । तस्माद् द्वितीयहरिहरपितामहलक्षणे 'दिवाकर'पददर्शनात् सूर्यहरिहरपितामहस्येदं लक्षणमिति निश्चिनुमः । 'तनुत्रयनिवासिनमि'ति सम्भाव्यमाने पाठे एतेषां पृथङ्मूर्त्तयः कर्त्तव्या इत्यर्थः । ४४ । चतुर्वक्त्रमिति द्वितीयान्तपदाना मन्वयो दुर्घटः । चतुष्कैकनिवासिनमिति, एकस्मिन् चतुष्कोणे स्थाने चतुष्कोणवत्यासने वा समासीनम् । ऋद्धामुखगत इति, रुद्रस्य दक्षिणे, हरेर्वामे, पितामहस्य पश्चिमे सन्निवेशदर्शनादयं पूर्वदिक्स्थ इत्यायाति, क्वचित्तदर्थद्योतकमिदं पदं स्यादनर्थकं वेति सुधीभिर्भाव्यम् । ४६ । द्वितीयार्द्धे 'एवंविधोऽयं कर्त्तव्यः सर्वकामफलप्रदः' इति स्यात् । ४७-४८ । चन्द्राङ्कपितामहोऽनुसन्धेयस्वरूपः ।