भारतकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

षष्ठोऽध्यायः १०३ चतुर्वक्त्रमष्टबाहुं चतुष्कैकनिवासिनम् । ऋद्धा(?)मुखगतः कार्यः पद्महस्तो दिवाकरः ॥ ४४ ॥ खट्वाङ्गत्विशूलहस्तो रुद्रो दक्षिणतः शुभः । कमण्डलुश्चाक्षसूत्रमपरस्थः पितामहः ॥ ४५ ॥ शङ्खचक्रधरो हरिर्वामे चैव तु संस्थितः । एवं विधेय(?)कर्त्तव्यं सर्वकामफलप्रदम् ॥ ४६ ॥ इति (सूर्य?)हरिहरपितामहः । षड्भुजञ्च चतुर्वक्त्रं सर्वाभरणभूषितम् । कमण्डलुश्चाक्षसूत्रमुभयोः कमलधृतकरम् ॥ ४७ ॥ मणा(?)लोर्द्धौ युग्महस्ते कर्त्तव्ये शुभलक्षणे । सर्वाभरणसंयुक्तं सर्वकामफलप्रदम् ॥ ४८ ॥ इति चन्द्राङ्कपितामहः । लेलिहन्तं दंष्ट्राकरालं चण्डभैरवमुत्तमम् । एकवक्त्रं शूलहस्तं खड्गशक्तिशराङ्कुशम् ॥ ४९ ॥ वरदं दक्षिणे ज्ञेयं खट्वाङ्गं खेटकं तथा । चापं तथाऽभयं चैव कपालं वामहस्तके ॥ ५० ॥ लक्षणयोर्भिन्नतयैकस्य वस्तुनः प्रतिपादकत्वानुपपत्तेः । तस्माद् द्वितीयहरिहरपितामहलक्षणे 'दिवाकर'पददर्शनात् सूर्यहरिहरपितामहस्येदं लक्षणमिति निश्चिनुमः । 'तनुत्रयनिवासिनमि'ति सम्भाव्यमाने पाठे एतेषां पृथङ्मूर्त्तयः कर्त्तव्या इत्यर्थः । ४४ । चतुर्वक्त्रमिति द्वितीयान्तपदाना मन्वयो दुर्घटः । चतुष्कैकनिवासिनमिति, एकस्मिन् चतुष्कोणे स्थाने चतुष्कोणवत्यासने वा समासीनम् । ऋद्धामुखगत इति, रुद्रस्य दक्षिणे, हरेर्वामे, पितामहस्य पश्चिमे सन्निवेशदर्शनादयं पूर्वदिक्स्थ इत्यायाति, क्वचित्तदर्थद्योतकमिदं पदं स्यादनर्थकं वेति सुधीभिर्भाव्यम् । ४६ । द्वितीयार्द्धे 'एवंविधोऽयं कर्त्तव्यः सर्वकामफलप्रदः' इति स्यात् । ४७-४८ । चन्द्राङ्कपितामहोऽनुसन्धेयस्वरूपः ।

१०४ देवतामूर्तिप्रकरणम् द्वाभ्यां वै गजचर्म स्यान्मुण्डमालाविभूषितम् । (इद?ईदृ)शं कारयेत् प्राज्ञश्चण्डभैरवमुत्तमम् ॥ ५१ ॥ इति चण्डभैरवः । विरूपाक्षस्ततः खड्गं शूलं डमरुमङ्कुशम् । सर्पं चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टके ॥ ५२ ॥ खेटं खट्वाङ्गशक्ति(श्व? श्व) परशुतर्जनीघटम् । घण्टाकपाल(क्तौ?कौ) चेति (वामार्धा?वामोर्ध्वा)दिकराष्टके ॥ ५३ ॥ इति विरूपाक्षः । त्र्यम्बकोऽपि दधच्चक्रं डमरुं (मुदरं ? मुद्गरं) शरम् । शूलाङ्कुशाहिजाप्यञ्च दक्षोर्ध्वादिकराष्टके ॥ ५४ ॥ गदाखट्वाङ्गपात्राणि कार्मुकं तर्ज(नी ? नीं) घटम् । परशुं पट्टिशं चैव वामोर्ध्वादिक्रमेण वै ॥ ५५ ॥ इति त्र्यम्बकः । कार्यो हरिहर(स्या?श्चा)पि दक्षिणाद्धे सदाशिवः । वामार्द्धे च हृषीकेशः श्वेतनीलाकृ(तिः?ती) क्रमात् ॥ ५६ ॥ व(रं?र) त्रिशू(लं?ल) चक्राब्जधारिणो बाहवः क्रमात् । दक्षिणे वृष(भे?भः) पार्श्वे वामे विहगराडिति ॥ ५७ ॥ इति हरि-हरमूर्त्तिः । कृ(ष्णा?ष्ण)शङ्करसंयोगाद् द्वाविंशद्भेद-(मर्जयः ? मूर्त्तयः) । नोदिता ग्रन्थबाहुल्याज् (ज्ञेयादियार्णवा?) बुधैः ॥ ५८ ॥ ५४-५५ । अहिजाप्यमिति अहिः सर्पः जाप्यं जपसाधनमक्षसूत्रमिति यावत् । गदा- खट्वाङ्गेति । पात्रं नृकपालम् । एतेनायं षोडशभुज इति सिद्धम् । पूर्वोक्तो विरूपाक्षोऽपि तथा ।

षष्ठोऽध्यायः १०५ अथ लिङ्गानि अष्टलोहानि लिङ्गार्थे स्वर्णं रौप्यञ्च ताम्रकम् । कांस्यपित्तलवङ्गानि नागं लोहं तथाऽष्टमम् ॥५९॥ [ धातुलिङ्गमानम् ] एकाङ्गुलाद् धातुमयं यावदष्टाङ्गुलोदयम् । एकैकस्याङ्गुलस्याष्टौ लिङ्गान्राष्टौ ततः पुनः ॥६०॥ ५९ । अथ लिङ्गान्याह—अष्टलोहानीति । एतेऽष्टौ धातव एवाष्टलोहनाम्नाऽभिधीयन्ते लोहशब्दस्य धातुपर्यायेऽन्तःपातात् । तत्र वङ्गं रङ्गापरनामा धातुविशेषः, नागं सीसकम् । लिङ्गफलान्युक्तानि रूपमण्डने ( अ० ४, श्लो० ३७-४१ ) । स्थिरलक्ष्मीप्रदं हेमं रजतञ्चैव राज्यदम् । प्रजावृद्धिकरं ताम्रं वाङ्मायुर्विवर्धनम् ॥ विशेषकारकं कांस्यं पित्तलं भुक्तिमुक्तिदम् । सीसकञ्च शत्रुलिङ्गम् आयसं रिपुनाशनम् ॥ अष्टलोहमयं लिङ्गं कुष्ठरोगक्षयापहम् । त्रिलोहसम्भवं लिङ्गमन्तर्धानप्रसिद्धिदम् ॥ आयुष्यं हीरकं लिङ्गं भोगदं मौक्तिकोद्भवम् । सुखकृत् पुष्परागोत्थं वैदूर्यं शत्रुमर्दनम् ॥ श्रीप्रदं पद्मरागञ्च इन्द्रनीलं यशःप्रदम् । लिङ्गं मणिमयं पुष्ट्यै स्फाटिकं सर्वकामदम् ॥ इति । शिल्परत्नेऽपि प्रायेणैवमेव फलानि । ( शिल्प० उत्तरभाग० अ० १, श्लो० ३८-४१ ) । ६० । एकाङ्गुलादिति । धातुमयानि लिङ्गानि एकाङ्गुलादारभ्य यावदष्टाङ्गुलमुन्नतानि स्युः । एवमष्टौ लिङ्गानि भवेयुः, ततः पुनरेकैकस्याङ्गुलस्याष्टौ लिङ्गानि भवेयुः, स्वर्ण- रौप्यादिभेदेनेत्यर्थः, इति व्युत्क्रमेण व्याख्येयम् । तथा च एकाङ्गुलादष्टाङ्गुलान्तानि स्वर्ण- लिङ्गान्राष्टौ, एवं रजतानि एवं ताम्राणीत्यादि । यद्वा एकैकस्य अङ्गुलस्याष्टौ लिङ्गानीति वक्ष्यमाणमनोहरादिसंज्ञाभेदेनेत्यर्थः, तथाच एकाङ्गुलादष्टाङ्गुलान्तानि मनोहरलिङ्गान्राष्टौ एवं श्रीमुखलिङ्गानीत्यादि । अत्र च पक्षे अविशेषाद् वक्ष्यमाणेषु शैलदारुवादिलिङ्गेष्वप्येवं भेदस्याऽऽवश्यकत्वेनास्योपलक्षणपरत्वं व्याख्येयम् । यद्वा, तृतीयपादे 'एकैकस्याङ्गुल्यस्यर्द्धया' इति कृतशुद्धिः पाठः । ऋद्धिवृद्धिरिति नार्थान्तरम् । तथाच एकाङ्गुलादारभ्य एकैकस्याङ्गुलस्य वृद्ध्या लिङ्गान्राष्टौ भवन्ति । शिल्परत्ने अङ्गुलीनां वृद्धेस्तारतम्यतो लौहलिङ्गस्य द्वैविध्यमुक्तम् । तथाच— देवता—१४

१०६ देवतामूर्त्तिप्रकरणम् [ धातुलिङ्गनामानि ] (१)मनोहरं (२)श्रीमुखञ्च (३)रुद्रतेजो (४)महोत्सवम् । (५)आनन्दञ्च (६)सुवक्त्राख्यं (७)स्त्रीपुंजं (८)नन्दिवर्धनम् ॥६१॥ [ धातुलिङ्गे विशेषः ] (लोह?लौहं) मिश्रं न कर्त्तव्यं स्वमा(लं योनि?त्रयोनि)संयुक्तम् । [ रत्नलिङ्गम् ] कर्त्तव्यं धातुलिङ्गस्य प्रमाणेन हि रत्नजम् ॥६२॥ इति धातुरत्नलिङ्गानि । अष्टाङ्गुलं समारभ्य ( द्विद्वय ? ष्टाष्टा ) ङ्गुलविवर्धनात् । लौहानि नव लिङ्गानि त्रिहस्तान्तानि कारयेत् ॥ तथाऽष्टाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् । त्रिहस्तान्तानि लिङ्गानि त्रयस्त्रिंशद् भवन्ति हि ॥ ( उत्तरभाग० २ अ० ५४-५५ श्लो० ) इत्यादौ अष्टाङ्गुलवृद्धिभाञ्जि नव लिङ्गानि, अनन्तरञ्च द्विद्व्यङ्गुलवृद्धिभाञ्जि त्रयस्त्रिंशत्संख्य- लिङ्गानीत्युक्तम् । मानन्तुभयत्रैवाष्टाङ्गुलत आरब्धम् । रूपमण्डनेऽपि अष्टाङ्गुलारब्धमानकानि अष्टाङ्गुलवृद्धिमन्ति नवैव लौहलिङ्गानि । तथाच— धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् । त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ इति । ( अ० ४, श्लो० ५१ ) । एवञ्च स्वकृताद् रूपमण्डनात परकृताच्छिल्परत्नाच्चान्यादृशस्यास्य धातवलिङ्गानां लक्षणस्य मूलमन्यत्र शास्त्रान्तरेऽनुसन्धेयम् । ६१ । अष्टानां धातवलिङ्गानां नामान्याह—मनोहरमिति । एतानि नामानि नान्यत्रोप- लभ्यन्ते । एवमुत्तरत्रापि दारुजादिलिङ्गानाम् । शिल्परत्ने अष्टादशलिङ्गनामान्युक्तानि ( शिल्प० उ० अ० २, श्लो० १-५ ) । ६२ । लौहमिति । लौहं धातुजं लिङ्गं मिश्रं धात्वन्तरसंयुक्तं न कर्त्तव्यम् । यद्यपि धातुष्वपि केचनान्योन्यसंकरजन्मानो वर्तन्ते, अत एव तानुद्दिश्य निन्दाऽपि श्रूयते— मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि । पिशाचलोहान्यन्यानि कांस्यादीनीति केचन ॥ इति । ( शिल्प० उ० अ० १ ४१-४२ श्लो० ) तथाऽप्यद्यतनमिश्रणव्यावृत्त्यर्थमेतदित्यनुसन्धेयम् । यद्बोत्तरपादे पीठिकालक्षणघटकीभूत'स्वमात्र'-

षष्ठोऽध्यायः १०७ [ दारुलिङ्गमानम् ] षोडशाङ्गुललिङ्गञ्च (षोडशा ?एकैका)ङ्गुलवर्धनात् । लिङ्गा(ना ?न्या)रसह(स्ता ?स्ता)न्तमष्टाविंशोत्तरं शतम् । क्रमेण नव लिङ्गानां षट्(का ?क)रान्तानि संख्यया ॥६३ ॥ षड्व्यावर्त्तनीयमनेनाऽऽद्यपादेन दर्शितम्, तथाच पीठिका लोहमिश्रा न कर्त्तव्येति वर्त्तलोऽर्थः । यद्वा लोहमिश्रं लोहान्तरमिश्रं लिङ्गमिति शेषः, न कर्त्तव्यम् । एवञ्च यथाश्रुत एव पाठः प्रथमपादे । स्वमात्रेति । लिङ्गं स्वमात्रयोनिसंयुतं कर्तव्यम् इत्यन्वयः । स्वमात्रं येन धातुना कृतं लिङ्गं तन्मात्रं तेन कृता योनिः पीठिका तया संयुक्तं लिङ्गं कुर्यादित्यर्थः, न त्वेकेन धातुना घटिते लिङ्गे धात्वन्तरेण पीठिका कर्तव्येति भावः । तदेतत् सर्वं विशिष्याऽऽह शिल्परत्ने— स्वयोनिः पीठिकैव स्याच्छैलादीनामदूषणा । अभावे त्वैष्टकी शैले रत्नजानां हिरण्मयी ॥ राजती ताम्रजा वा स्याच् श्रेष्ठमध्याधमक्रमात् । न्यूनैर्वा परलोहानामिष्टकाभिश्च दारवे ॥ इति । ( उ० अ० १, ९७-९८ श्लो० ) रूपमण्डनेऽपि— रत्नलिङ्गं द्विधा ख्यातं स्वपीठं धातुपीठकम् । धातुजन्तु स्वयोनिस्थं सिद्धिभक्तिप्रदायकम् ॥ ताम्रजं पुष्परागस्य स्फाटिकस्य तु राजतम् । ताम्रजं मौक्तिकस्यापि शेषाणां हेमजं मतम् ॥ इति ( रूप० अ० ४, ४२-४३ श्लो० ) एवमुत्तरपादे सम्भिन्नमर्थं प्रब्रुवाणोऽपि यथाश्रुतः पाठः प्रमाणान्तरानुग्रहाभावादुपेक्षितः । अतिरोहितार्थश्च यथाश्रुतः पाठः । उक्तमर्थं रत्नलिङ्गेऽप्यतिदिशति—कर्त्तव्यमिति । सन्नप्यन्यत्र रत्नलिङ्गविषये विशेषो नेह प्रपञ्चित इति द्रष्टव्यम् । ६३ । षोडशेति । एवमेव शिल्परत्न( उ० अ० २, श्लो० ५६ )रूपमण्डनयोः ( अ० ४, श्लो० ५२ ) । त्र्यर्थस्यास्य पद्यस्य प्रथमार्धे यथोक्तशोधनं विना मध्यमार्थे लिङ्गसंख्या दुरुपपादा । तथाहि येय'मष्टाविंशोत्तरं शतम्' इति संख्या श्रूयते सा किं लिङ्गानामुताङ्गुली- नामिति विचार्यमाणे न लिङ्गानामित्यापातत आयाति । कथमिति चेद् रसहस्तमवधीकृत्य षोडशाङ्गुलादारभ्य षोडश-षोडशवर्धनेन नवैव लिङ्गानि भवेयुर्न यथोक्तानि । नाप्यङ्गुलीनाम्, यथोक्तसंख्याकाभिरङ्गुलीभी रसहस्तानिष्पत्तेः । तस्मादत्र क्वचित् कश्चिद् भ्रमः कल्पनीय

१०८ देवतामूर्त्तिप्रकरणम् [ दारुलिङ्गनामानि ] (१)मकरेन्दु च (२)मांलक्यं (३)पुष्पं (४)सिद्धार्थकं ततः। (५)दण्डाख्यं (६)ग्रौरवं (७)काम्यं (८)पुष्पकञ्च (६)फलोद्भवम् ॥६४॥ [ लिङ्गोचितवृक्षाः ] श्रीपर्णी शिशुकाशोकः शिरी(ष ? षः) खदिरोऽर्जुनः । चन्द(न ? नः) श्रीफलो निम्बो रक्तचन्दनवीर्यकौ ॥६५॥ कर्पूरो देवदारुश्च स्यन्दनः पारिजातकः । चम्पको मधुवृक्षश्च (हिताश्चागरुडः?हिन्तालश्चागुरुः) शुभः॥६६॥ [ वृक्षाणां लक्षणोद्धारः ] निर्त्र(णा ?: सु ) दृढा वृक्षा लिङ्गार्थे सौख्यदाय(कः ? काः) । ग्रन्थिकोटरसंयु(क्ता ?क्तान्) शाखोद्भू(ता ?तान् ) परित्यजेत् ॥ ६७ ॥ [ लिङ्गोचितानि गृहाणि ] निलयं दारुलिङ्गानाम् इष्टकादारुजं शुभम् । शैलजं धातुलिङ्गानां स्वरूपं वाऽधिकं शुभम् ॥६८॥ इति दारुजा(ती ? नि) । [ शैललिङ्गमानम् ] एकहस्तादिमं लिङ्गं हस्तवृद्ध्या नवान्तिकम् । शैललिङ्गस्य मानन्तु हस्त(हितं ? हीनं) न कारयेत् ॥६९॥ इति द्वितीयपादे शुद्धिः कृता । ततश्च षोडशाङ्गुललिङ्गमारभ्य एकैकाङ्गुलवर्धनाद् रसहस्तं यावल्लिङ्गानि यथोक्तसंख्याकान्येव स्युरिति सर्वमनवद्यम् । ‘आरसे’त्यादावाङ् मर्यादायाम् एकाङ्गुलोनरसहस्तान्तमित्यर्थः, एवमेवाष्टाविंशोत्तरशतसंख्या स्यात् । मध्ये शुद्धिरित्यु प्रास्ताविक्येव । ६४ । नवानां लिङ्गानां नामान्याह-मकरेन्दु चेति । ६५ । लिङ्गवृक्षानाह-‘श्रीपर्णी’त्यादि ‘हिन्तालश्चागुरुः शुभः’ (६६) इत्यन्तेन । ‘स्यन्दन’ इत्यत्र ‘चन्दन’ इति प्रामादिकः पाठो रूपमण्डने (अ० ४, श्लो० ५६ ) । ६९ । शैललिङ्गमानमाह-एकेति । एकहस्ततो नवहस्तान्तं शैललिङ्गं कुर्यात् ।

षष्ठोऽध्यायः १०६ हस्तादिपादवृद्ध्या च (भयलिं ? त्रयस्त्रिं)शत् क्रमेण वै । लिङ्गानि (न च ? नव) हस्तान्तं— ७०। पूर्वोक्तानां नवानां लिङ्गानां निर्माणक्रमेण त्रयस्त्रिंशत्त्वमाह—हस्तादीति । ‘हस्तहीनं न कारयेदि’त्युक्तत्वादेकहस्तमारभ्य एकहस्तं सपादहस्तं सार्द्धहस्तं पादोनद्विहस्त- मित्यादिक्रमेण पादशो वर्द्धितानि लिङ्गानि नवहस्तं यावत् त्रयस्त्रिंशत्संख्याकानि भवन्तीत्यर्थः । रूपमण्डने— हस्तादि नवहस्तान्तं शैलं लिङ्गं विधीयते । हस्तवृद्ध्या नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ (अ० ४, श्लो० ५३) इति हस्तादिनवहस्तान्तं लिङ्गमानं नियम्य या चेह पादवृद्धिरुक्ता तत्रौदासीन्येन यादृच्छिकवृद्धि- स्तत्र प्रतिपादितेति ज्ञेयम् । शिल्परत्ने पुनः— (सप्त ? एक)हस्तोच्छ्रमारभ्य पादवृद्ध्या तु पूर्ववत् । श्रेष्ठानि नवलिङ्गानां त्रयस्त्रिंशदुदाहृतम् ॥ (उ० अ० २, श्लो० २४-२५) इत्यनेन प्रकृता पादवृद्धिः समर्थिता दृश्यते । लिङ्गमानं तावत् नवधा भवेत् । तथाच— लिङ्गं गर्भगृह(१)द्वार(२) स्तम्भा(३)धिष्ठान(४)किष्कुभिः (५) । ताल(६)मानाङ्गुलै(७)श्चापि तथा मात्राङ्गुलै(८)रपि ॥ यजमानोच्छ्रमानेन (९) चैवं नवविधं स्मृतम् ॥ इति । (शिल्प० उ० अ० २, श्लो० १३) । क्वचित् सप्तधेत्यपि । तथाच— गर्भगृहप्रमाणञ्च द्वारमानं तथैव च । स्तम्भञ्च कालमानञ्च हस्ततालाङ्गुलं तथा ॥ लिङ्गमानं ध्रुवं सप्त......... । (काश्यप० अ० ४९, श्लो० ६९-७०) इति । इह तु त्रिधा लिङ्गमानमुक्तम् । तत्र मानाङ्गुलेन पूर्वमुक्तं प्रासादगर्भमानाभ्यामिदानी- मुच्यते । प्रासादमानेन लिङ्गमानकथनस्यायमभिप्रायः—एवं हि तन्त्रयुक्त्या लिङ्गमानं लिङ्गोचितप्रासादमानञ्चोक्तं भवतीति । तदुक्तं मात्स्ये— प्रासादस्य प्रमाणेन लिङ्गमानं विधीयते । लिङ्गमानेन वा विद्यात् प्रासादं शुभलक्षणम् ॥ इति । (मत्स्य० अ० २६३, श्लो० २) ।

११४ देवतामूर्तिप्रकरणम् [ शैललिङ्गनामानि ] (१)श्रीभवं (२)(नु ?तू)र्ध्वं (३)भवम् ॥७०॥ (४)भयहृत् (५)पाशहरणं (६)पापहस्तेज उच्यते । ततः परं (७)महातेजा (८)परापर(६)म(खे ? हे)श्वरम् ॥७१॥ (१०)शेखरश्च (११)शिवं (१२)शान्तं (१३)मनोल्हादकरं ततः । (१४)रुद्रतेजः (१५)सदात्मज्ञं (१६)वामदेव (१७)मघोरे (१८)श्वरम् ॥७२॥ (१९)तत्पुरुषं (२०)तथेशानं (२१)मृत्युञ्जय(२२)विजयक्रमात् । (२३)किरणाक्ष(२४)महोरात्रं (२५)श्रीकण्ठं (२६)मुनिवर्धनम् ॥७३॥ (२७)पुण्डरीकं (२८)सुवक्त्राख्यम् (२९)उमातेजं (३०)विश्वेश्वरम् । (३१)त्रिनेत्रं (३२)त्र्यम्बकं चैव (३३)महाकालञ्च नामतः ॥७४॥ [ प्रासादमानेन लिङ्गमानम् ] हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये । (ये ? ज्ये)ष्ठलिङ्गन्तु (वेदशं ? वेदांशे) षट्त्रिंशे नवहस्तकम् ॥७५॥ पञ्चादिभूतवेदा(न्तं ? न्ते) प्रासादे हस्तसंख्यया । मध्यमं पञ्चमांशेन हस्तादिनवहस्तकम् ॥७६॥ रित्यादि(?)युगलं चान्ते हस्तसंख्या शिवालये । षडंशेन प्रकर्त्तव्यं हस्तादि (भव ?नव)हस्तकम् ॥७७॥ ७६ । प्रासादमानस्यावधिमाह—पञ्चादीति । पञ्चसंख्याया आदिः पञ्चादिः चतुः- संख्येत्यर्थः । तथा च चतुर्हस्ततो भूतवेदान्ते पञ्चचत्वारिंशद्धस्तमिते प्रासादे हस्तसंख्यया लिङ्गं स्थाप्यमित्यर्थः । 'हस्तमानं भवेल्लिङ्गम्' इत्युक्तत्वादेवमनाजर्वेन व्याख्यातम् । ७७ । 'रित्यादियुगलं'मित्ययं दुर्ग्रहार्थः पाठः । यच्च समानतन्त्रे रूपमण्डने 'कृत्वा द्वियुगलम्' ( अ० ४, श्लो० ६२ ) इति पाठः सोऽपि दुर्ज्ञेयप्रकृतोपयोग इत्युपेक्षितः । 'अतिकोमलमेकतोऽन्यतः सरसाम्भोरूहवृन्तकर्कशम्' ।

षष्ठोऽध्यायः १११ कनि(ष्ठा ये ? ष्ठज्ये?)ष्ठलिङ्गेषु मध्यमामध्यमेषु च । प्रासा(द?दाः)कन्यसे (यष्ठां ? ज्येष्ठाः) सीमा- (न ?मान)मिदं स्मृतम् ॥७८॥ [ गर्भगेहमानेन लिङ्गमानम् ] गर्भे पञ्चांशके त्र्यंशे (न्यष्टे ?ज्येष्ठ)लिङ्गन्तु मध्यमम् । नवांशे पञ्चभागे (स्याद्गर्भार्थं ?स्याद्गर्भार्धं) कन्यसोदयम् ॥७६॥ धातुजे रत्नजे चैव शम्भुबाणे च (दारुणे ? दारवे) । गृहं न्यूनाधिकं प्रोक्तं वक्त्रलिङ्गे(षु? च) पार्थिवे ॥८०॥ ७९ । इदानीं गर्भगेहमानेन लिङ्गमानमाह—गर्भ इति । पञ्चभागीकृतस्य गर्भगेहस्य त्र्यंशेन परिमितं लिङ्गं ज्येष्ठं भवेत्, एवं नवधा कृतस्य तस्य पञ्चांशेन मध्यमम्, द्विधा कृतस्य च तस्यार्द्धेन कनिष्ठमित्यर्थः । मात्स्ये— भागार्धेन तु यल्लिङ्गं कार्यं तदिह शस्यते । पञ्चभागविभक्तेषु त्रिभागो ज्येष्ठ उच्यते । भाजिते नवधा गर्भे मध्यमं पाञ्चभागिकम् ॥ इति ( अ० २६३, श्लो० ७-८ ) गर्भगृहस्वरूपमाह समराङ्गणसूत्रधारे— शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा । संछन्ना ( चा ? सा )पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ इति । ( अ० १८, श्लो० २० ) । तन्मानन्तु— प्रासादस्य त्रिभागैकं सप्तभागानलांशकम् । विशेषाद् गर्भगेहस्य विस्तारं प्राह काश्यपः ॥ इति । ( शिल्प० पूर्व० अ० २१, श्लो० ९ ) । ८० । यथोक्तमानस्य कचिद् विपर्ययोऽपि भवतीत्याह—वक्त्रलिङ्गे चेति । पार्थिवे वक्त्रलिङ्गे इति सम्बन्धः । वक्त्रलिङ्गं लिङ्गविशेषः, मुखलिङ्गमित्यस्य नामान्तरम् । तत्स्वरूपं शिल्परत्ने उत्तरभागे तृतीयाध्याये द्रष्टव्यम् । शम्भुबाणे इति शाम्भौ बाणे चेत्यर्थः ।

११२ देवतामूर्तिप्रकरणम् [ लिङ्गविस्तारः ] मृद्दारुलोहशै(लं वा?लानां) दैर्घ्ये भक्ते (दिनांशके?जिनांशकैः) । कुर्यात् षट्सार्धसप्तांशनवांशे विस्त(र?रं) क्रमात् ॥८१॥ (विषकं?विष्कम्भं) नव(नागं?भागं) तु सार्द्धमष्ट पितामहः । नारायणोऽष्टभिर्जे(यो?यः) सप्तसार्धं महेश्वरः ॥८२॥ ८१-८२। इदानीं लिङ्गस्य विस्तारं ब्रह्मादिभागविभागञ्च युग्मकेनाऽऽह—मृद्दार्विति । मृदादिलिङ्गानां दैर्घ्यं जिनांशकेश्चतुर्विंशत्येत्यर्थः, भक्ते षट्सार्धादिना विस्तरं कुर्यादित्यर्थः । यद्वा विष्कम्भनवभागं गर्भगृहविष्कम्भस्य नवमांशमितं विस्तरं कुर्यादित्यर्थः । अत्रोद्दिष्टानां मृदादीनां चतुर्णां षट्सार्धंत्यादिभिश्चतुर्भिरनुद्देशाद् यथासंख्येनान्वयो बोध्यः । विषमफलमपि तुल्यप्रकारं विभागवचनं शिल्परत्ने— आयामे दलिते दिवाकरयुजाऽभीष्टेऽष्टभिर्विस्तृतिः



पञ्चांशैरपि गर्भगृहनवमांशेनापि सा स्मर्यते ॥ ( उ० अ० २, श्लो० ६७ ) । ब्रह्मादिभागमाह—सार्द्धमष्टेति । अत्रापि जिनांशकैर्भक्ते इत्येव । सप्तसार्द्धमिति सार्द्ध- सप्तेत्यर्थः । अत्रापि फलविसंवाद्यपि संवादि प्रमाणं तत्रैव— लिङ्गं सर्वसमं समोन्मितिर्विभक्तांशत्रयं तत् पुनः स्वायत्या सम-नाहकं यदि समांशं वाथ वृद्धूत्तरम् । भक्ते भानुयुजोच्छ्रयेऽद्रि(७)वश्व(८)नन्दां(९)शैस्तु मूलादिषू- पेतं दिग्दलिते त्रिलोकयुगसंख्यातैस्तथेशाधिकम् ॥ ( शिल्प० उ० अ० २ श्लो० ६६ ) अस्यायमर्थः—लिङ्गस्य उच्छ्राये भानुयुजा रविद्वयेन चतुर्विंशत्येत्यर्थः, भक्ते क्रमेण अद्रिवस्व- नन्दांशैः सप्ताष्टनवभिरंशैर्मूलादिषु मूलमध्योर्ध्वभागेषु उपेतं पूर्वार्धविशेषणविशिष्टं लिङ्गम् ईशाधिकं शिवभागाधिकं भवेदित्यर्थः । पक्षान्तरमाह—दिग्दलिते इति । दिशा दशभिर्दलिते विभाजिते उच्छ्राये इत्येव, त्रिलोकयुगसंख्यातैः यथाक्रमं त्रिभिखिभिश्चतुर्भिरंशैर्मूलादिषु उपेतम् ईशाधिकञ्च सत् लिङ्गं तथा पूर्वोक्तवदेव भवेदित्यर्थः ।

षष्ठोऽध्यायः ११३ [ लिङ्गस्य ब्रह्मादिभागाः ] ब्रह्मांशश्चतुरस्रो (वोऽधो) मध्येऽष्टास्रस्तु वैष्णवः । पूजाभागः सुवृत्तः स्यात् पीठोर्ध्वं शङ्करस्य च ॥८३॥ [ नागरलिङ्गानि ] गर्भा(र्थं?र्धं) कन्यसं श्रेष्ठं पञ्च(विं?त्र्यं)शं शिवालयम् । भवन्ति नव लिङ्गानि तयोर्मध्येऽष्ट(भागिके?भाजिते) ॥८४॥ श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि । नागरे नागरस्यो(क्त?क्तं)मा(न?नं)लिङ्गस्य मन्दिरे ॥८५॥ अग्रेऽशभागोऽधिक इति दृश्यते प्रकृते तु ब्रह्माभागः, तस्य सार्धाष्टभागभाजित्वात् । तदग्रेऽशपदं ब्रह्मपरं वा स्यात् मूलपदम् ऊर्ध्वपरं वेति तत्रभवन्तो निर्माणनिपुणा जातिशिल्पिनो निर्दिशन्त्विति । परमीशपदस्य ब्रह्मपरत्वेऽपि तस्य मूलभाक्त्वादाधिक्यमसम्भवमेव । ८३। ब्रह्मादिभागस्य देशं प्रकारञ्चाऽऽह—ब्रह्मांश इति । ब्रह्मांशश्चतुरस्रः समचतुष्कोणः, स च अधो विधेयः, वैष्णवः अष्टास्रः, स तु मध्ये कर्त्तव्यः, शङ्करस्य पूजाभागः सुवृत्तः पीठोर्ध्वञ्च स्यादिति योजना । तदेतदाह शिल्परत्ने— यथोचितातानवितानयुक्तां शिलां यथोक्तक्रमतोऽभिभज्य । मूलं युगाश्रं विदधीत मध्यमष्टाश्रकं वृत्तमयं परञ्च ॥ इति (उ० अ० २, श्लो० ७७) । ८४-८५। सम्प्रति लिङ्गस्य पूर्वोक्तं श्रेष्ठमध्यकनिष्ठत्वादिभेदत्रयमनूद्य नागरादिप्रासादभेदेन लिङ्गमानमाह—गर्भार्धमिति । गर्भार्धं शिवालयं शिवलिङ्गं कन्यसं कनिष्ठम्, पञ्चत्र्यंशं गर्भपञ्चांशस्य त्र्यंशं शिवलिङ्गं ज्येष्ठम् इति पूर्वोक्तानुवादः । प्रस्तुतमाह—भवन्तीति । तयोर्मध्ये ज्येष्ठ- कनिष्ठयोर्मध्ये नवांशीकृतस्य गर्भस्य पञ्चांशे इत्यर्थः, पूर्वं तस्यैव मध्यमत्वाभिधानात् ; अष्टभाजिते अष्टभिर्विभक्ते नव लिङ्गानि भवन्ति ; तानि च श्रेष्ठमध्यकनिष्ठानीति त्रित्रिभेदानि भवन्तीत्यर्थः । निगमयति—नागर इति । नागरे मन्दिरे नागरस्य लिङ्गस्य मानम् इत्युक्तम् । शिल्परत्ने 'नागरे' इत्यत्र 'वेशरे' इति लिखितं विलक्षणैरांशादिभिरयमेव प्रकारोऽभिहितः । तथाच— अभिकृत्यंशके (२६) गर्भे षोडशांशं तदुत्तमम् । त्रयोदशांशमधमं तयोर्मध्येऽष्टभाजिते ॥ नव लिङ्गानि सिध्यन्ति वेसरे तानि कल्पयेत् । ( उ० अ० २, श्लो० ६४-६६ ) देवता—१५

११४ देवतामूर्तिप्रकरणम् विकारांशे तदायामे भूत(भङ्गानि?वेदाग्नि)विस्तरम् । (नयदं ?जयदं) पौष्टिकं सार्थकामकं नागरे विदुः ॥८६॥ [ द्राविडलिङ्गानि ] गर्भे (त्रिसुप्रभागं ?त्रिःसप्तभागे) तु दशां(श?शो) द्राविडेऽधमः । (त्र्या?त्रयो)दशांश(के?कं) श्रेष्ठं (गर्भे ?मध्ये)ऽष्टांशेन पूर्ववत् ॥८७॥ त्रिःसप्तांशे निजायामे षट्पञ्चचतुरं(शतम् ?शकम् ) । जयदा(यि?दि) विशालं तु पूर्ववद् द्राविडे मतम् ॥ ८८ ॥ इति । काश्यपशिल्पे पुनर्द्वारमानेनेयं कल्पना, परं तत्र नागरादिसंज्ञा नास्ति । तथाच तत्र द्वारमानमभिधाय— अधमोत्तमयोर्मध्ये वसुभागविभाजिते । नवधा सकलोत्तुङ्गं द्वार ( मानं ? मानाद् ) विधीयते ॥ इत्युक्तम् । एतत्तु चित्रम्, सर्वत्रैव मध्यमष्टभिर्विभज्य नव लिङ्गानि विहितानि, परं कथं तथाविधे भागे लिङ्गनवकोत्पत्तिर्भवेदिति शिल्पिन एव कल्पयितुं प्रभवेयुः । ८६। नागरलिङ्गस्य विस्तारक्रमेण नामान्याह—विकारांश इति । तदायासे लिङ्गायामे विकारांशे जयदं पौष्टिकं सार्थकामकञ्च लिङ्गं यथाक्रमं भूतवेदाग्निविस्तरं पञ्चचतुस्त्र्यंशविशालं विदुः । पञ्चांशविस्तृतं जयदम्, चतुरंशविस्तृतं पौष्टिकम्, त्र्यंशविस्तृतं सार्थकामकम् इति निष्कर्षः। शिल्परत्ने ( उ० भा० अ० २, श्लो० ६३ ) पुनः 'सार्वकामिकमि'ति तृतीयं नाम द्राविडे प्रासादे एषां स्थानञ्चोक्तम् । अत्र विकारपदेन षोडश प्रकृतिविकारा उच्यन्ते, काश्यपशिल्पे— अथोदये कलांशे तु पञ्चांशं स्वस्तिकं भवेत् । वेदांशं पौष्टिकं ख्यातं गुणांशं जयदं भवेत् ॥ ( अ० ४९, श्लो० ९१ ) इति यथोक्तांशस्य कलाशब्देनोल्लेखात् । अत्रापि नाम्नां भेदः पौर्वापर्यविपर्ययश्च द्रष्टव्यौ । ८७ । द्राविडप्रासादे लिङ्गायामविस्तारौ वक्तुमंशविभागमाह—गर्भ इति । द्राविडे प्रासादे त्रिःसप्तभागे एकविंशतिभागे कृते दशांशोऽधमः त्रयोदशांशकं श्रेष्ठं भवति । मध्येऽष्टांशे- नेति पूर्ववत् नागरे इव तयोर्मध्ये अष्टांशेन विभक्ते नवलिङ्गानि भवन्तीत्यर्थः । ८८। सम्प्रति विस्तारमाह—त्रिःसप्तांश इति । निजायाम इति लिङ्गदैर्घ्ये । षट्पञ्च- चतुरंशकं विशालं विस्तारं कुर्यादिति शेषः । जयदादीति क्रमेण तेषामंशानां पूर्ववत् जयदादि- संज्ञा स्यादित्यर्थः ।

षष्ठोऽध्यायः ११५ [ वेशरलिङ्गानि ] वेशरे पञ्चपञ्चांशे गर्भाकारे विमानके । त्रयोदशांशकं हीने श्रेष्ठं कुर्याद् विचक्षणः ॥८६॥ [ लिङ्गप्रासादोचितनक्षत्रानयनम् ] उत्सेधाष्टगुणे सप्तविंशभिर्हरणे ततः । शेषमश्वयुजा(ध्यं?द्यं) तु काश्यपे— लिङ्गोच्चे द्विनंवांशे तु रसभूतयुगांशके । गुणांशे शान्तिकादिः स्याद् द्राविडे च चतुर्विधम् ॥ (अ० ४९, श्लो० ९३) इति द्विनंवांश इति चतुर्विधमिति च प्रकृताद् भिद्येते । ८९। वेशरालिङ्गमाह—वेशर इति । प्रमादबहुलोऽयं पाठः । शिल्परत्ने— पञ्चपञ्चांशके दैर्घ्ये वसुकृप्तषडंशकैः । विस्तारं वेशरे विद्यात् पूर्वध्वज्जयदादिकम् ॥ इति ( उ० अ० २, श्लो० ६६) काश्यपशिल्पे— वेशरे लिङ्गतुङ्गे तु विंशत्यंशविभाजिते । अष्ट वा सप्तषट्पञ्चभागैक्यांशं प्रकल्पितम् ॥ (अ० ४९, श्लो० ९४) इति चैकार्थबोधकं पद्यद्वयम् । ९० । प्रसङ्गात् प्रासादस्य लिङ्गस्य च नक्षत्रादीनि वक्तुमादौ नक्षत्रमाह—उत्सेधाष्टगुणे इति । एतानि च शिल्परत्नादौ आयादिरिति नाम्ना व्यपदिश्यन्ते । शुभानाम् एतेषामति- प्राशस्त्यमाह समराङ्गणसूत्रधारे— आयो व्ययश्च योनि(त्वं ? श्च) ताराश्च भवनांशकम् । गृहनामेति चिन्त्यानि करणानि गृहस्य षट् । त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥ करणैश्चतुराद्यैस्तु शुभैरतिशुभं भवेत् ॥ (अ० २६, श्लो० ४९–५१) इति । इह गृहनाम वर्जयित्वाऽन्येषां पञ्चानां लक्षणानि लिखितानि । सम्प्रति व्याख्यायते । कर्तव्यस्य प्रासादस्य लिङ्गस्य वा भाविते उत्सेधे उन्नतिमाने अष्टभिर्गुणिते सप्तविंशत्या हृते च अवशिष्टसंख्यया नक्षत्रं जानीयादिति निष्कर्षः । अश्वयुजाद्य-

११६ देवतामूर्त्तिप्रकरणम् [ तस्कराद्यंशानयनम् ] नक्ष(त्रञ्च?त्रे च) चतुर्गुणे ॥६०॥ नवभिर्हरणे (षष्ठमश्यकं ?शेषमंशकं) तस्क(रं ति ?रादि)कम् । भुक्तिमुक्तिधनं (राज्ञा षडं का ? राजा षण्डञ्चाभयकं) वियत् । तस्करं (विषखण्डन्तु ?वियत् षण्डन्तु) निन्दितश्च सुपाठ(के?कैः) ॥६१॥ मिति अश्वन्यादिनक्षत्रम् । शेषसंख्यया नक्षत्रज्ञानञ्च—यथोक्तगुणहरणाभ्यामेकस्मिन्नवशिष्टे अश्विनी, द्वयोर्भरणी त्रिषु कृत्तिकेति क्रमेण । इयमेव रीतिः काश्यपे । तथाच—

      • अंशमष्टगुणीकृते । सप्तविंशतिहृच्छेषमश्विन्यादिक(कं?)सम्भवेत् ॥ (अ० ५०, श्लो० ६१ ) इति । समराङ्गणसूत्रधारे तु प्रकारान्तरेण नक्षत्रानयनमुपदिष्टम् । तत्र हि सप्तविंशतिर्नक्षत्राणि जन्मसम्पदादिसंज्ञया नवधा विभक्तानि ; अत एव तत्र हरणमपि नवभिः कृतम् । तथाच— गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् । नवभिर्भाजिते तस्मिन् शेषं तारा प्रकीर्त्तिता ॥ ( समराङ्गण० अ० २६, श्लो० ४०-४१ ), एवमेव शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० १३-१४ ) । अयमेव हि प्रकारः साधीयान्, एक- प्रयासेनैव नक्षत्राणां तच्छुभाशुभानवाप्तिगमकत्वात् । ९१। अंशानयनप्रकारमाह—नक्षत्रे चेति । नक्षत्रे नक्षत्रमाने चतुर्गुणे चतुर्भिर्गुणिते नवभिर्हृते विभाजिते च शेषमंशकं भवेत् । तेषां संज्ञामाह—तस्करमिति । ‘युगवृद्ध्या नवे हासे त्वंशकं तस्करादयः’ (अ० ४९, श्लो० १०३) इति काश्यपे यथोक्तावेव गुणहारौ । परमस्ति नाम्नि विप्रतिपत्तिः । तथाच— तस्करं भक्तिशक्तिश्च वनं राजञ्च षण्डकम् । अभयं धनषण्ढञ्च नवांशकमुदाहृतम् ॥ (अ० ५०, श्लो० ६१ ) इति । एवं शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० २७-२८ ) नामभेदो विद्यते । नवता तु प्राचीनैव । समराङ्गणसूत्रधारे पुनर्गुणहारयोर्नाम्नि संख्यायां च विप्रतिपत्तिः । तथाच— व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च । भागं त्रिभिर्हरेत्तत्र यच्छेषं सोऽंशको भवेत् ॥ इन्द्रो यमश्च राजा च त्रयो नामभिरंशकाः । स्वनामतुल्यफलदा विज्ञातव्याह्वयोऽपि च ॥ (अ० २६, श्लो० ३७-४०)

र् ? ि ) र् ते? Wait! Look at the letter after भि: It is ! And it has a virama? Or is it ह्? Wait, could it be काष्टभिह्? Wait, why would anyone write काष्टभिह्? In Sanskrit, काष्टभिः(visarga). In some manuscripts, visarga is written or transliterated, but here it's printed! Wait! Why is there a repha? Look at the repha:)has a repha on top! Wait, why would)have a repha? Could it beकाष्टभिर्? Wait! What if the reading in manuscript was: गुणेऽष्ट(काशभिर् ? काष्टभिर्)ते? Wait, why did you think that letter was ? Look at the letter: is it ? Wait! Could it be र्` and something else? Let's search Google / scholarly texts for this verse: "उत्तुङ्गे वसुनन्दाग्निगुणे" Let's search memory/knowledge base: Text: Silparत्न / Mayamata / Manasara / Tantrasamuccaya / Isanasivagurudevapaddhati

११८ देवतामूर्तिप्रकरणम् [ सूर्यादिवारानयनम् ] तुङ्गं नवगुणं कृत्वा सप्तभिः क्षापयेत्ततः । शेषं सूर्यादि(नारं?वारः) स्यात् क्रूरास्तत्र विवर्जिताः ॥६३॥ काश्यपे—

      • तुङ्गं हस्ताष्टवृद्धिदम् । नाभिस्तु निर्विशेषमायामित्युच्यते बुधैः । इत्येकत्र । ( अ० २६, श्लो० ४-५ ) अत्र द्वितीयार्धे—'नाडिभिस्तूनिते शेषमायमित्युच्यते बुधैरि'ति स्यात् । अन्यत्र च— अनले गुणिते चाष्टहृते योनिर्हृदाहृता । अष्टभिर्वर्धिते भानुहृते त्वायमुदाहृतम् ॥ नवभिर्गुणिते नाडीहृते शेषमृणं भवेत् । (काश्यप० अ० ४९, श्लो० १०२-१०३) इति यथोक्तसंख्यया गुणमभिधाय भानुहृते आयमाह, यत्र प्रकृते अष्टहरणमुक्तं यत्र च प्रकृते भानुहरणमुच्यते, तत्र ऋणे त्वयं नवभिर्हरणमाह, गुणनन्तु प्रकृतवदेव । तदन्यत्र च पूर्वोदाहृतवदेव आययोन्यादिकमभिधाय— नवभिर्गुणिते त्वं (श ? शे) राशिभिर्ह्रासयेत्ततः । शेषं व्ययमिति ख्यातम् * * * । ( काश्यप० अ० ५०, श्लो० ५०-५१ ) इति प्रकृतवदेव द्वादशभिर्हरणेन व्ययानयनं दृश्यते । तदत्र व्ययो धनं वा ऋणं वेति शिल्पिभि- रनुसन्धेयम् । मात्स्येऽपि अष्टाभिर्भाजिते आयव्ययावाह । तथाच— 'व्यासेन गुणिते दैर्घ्यं अष्टाभिर्वै हृते तथा । यच्छेषमा( यतं ? यं तं )विन्द्यात्' इत्यायम- भिधाय—'अष्टाभिर्भाजिते ऋक्षे यः शेषः स व्ययो मतः' ( अ० २५७, श्लो० १५-१६, २१ ) इति व्ययमाह । धनर्णयोर्हेयोपादेयत्वमाह—धनाधिकमिति । धनमधिकं यत्रेति, ऋणं क्षीणं यत्रेति च विग्रहद्वयम् , शेषं सुगमम् । 'आयाधिक्यं व्ययं क्षीणं सम्पदामास्पदं सदे'ति काश्यपे ( अ० ४९, श्लो० १०४ ) । इदमत्र द्रष्टव्यम्—षष्ठभिर्गुणिता तैरेव च भाजिता संख्या विकार- मननुभवन्त्येव स्वस्वरूपेणावतिष्ठते इत्यफलाऽनिष्टफला वा ग्रन्थकृतश्चेत्यवगच्छामः । ९३ । वारानयनमाह—तुङ्गमिति । स्पष्टम् । एवमेव शिल्परत्न(पूर्व० भा० अ० १५, श्लो० ३३ ) काश्यपशिल्पयोः ( अ० २६, श्लो० ३ । अ० ४९, श्लो० १०१ । अ० ५०, श्लो० ६३ ) ।

षष्ठोऽध्यायः ११६ [ तिथ्यानयनम् ] तुङ्गमष्टगुणं कृत्वा तिथिभि(हरणोज्झतः ? र्हरणात्ततः) । शेषश्च तिथयः सम्यग् रिक्तापर्व(विजिता ? विवर्जिताः) ॥६४॥ [ प्रशस्तचिह्नम् ] पद्मं शङ्खं ध्वजं छत्रं खड्ग्(:?)स्वस्तिकचामरे । वज्रं (दगेर्ध्व?दण्डार्ध)चन्द्रौ च(क्रमस्त्याप्यटकः ? चक्रमत्स्यौ घटः) शुभाः ॥ ६५ ॥ सौख्यदं चिह्नमित्या(च?थ)मावर्त्तौ दक्षिणे हि यः । रक्तश्वेतपीतकृष्णैरे(षो?खा) वर्णसुसौख्यदा ॥ ६६ ॥ [ लिङ्गे रेखाकरणम् ] पूजायामे कलांशे तु लिङ्गं चिह्नं दशांशकैः । पीठस्योर्ध्व द्विभागेन रे(षा?खा) कार्या प्रदक्षिणे ॥ ६७ ॥ [ लिङ्गशिरोवर्त्तनम् ] (सत्र?छत्रा)भमष्टमांशे तु सार्ध(त्र्यंशं?द्व्यंशे)(षडङ्गको?षडंशके) । त्रपुषाभं विस्तारार्धे (कुकुटान्नं ? कुक्कुटाण्डं) शिरो मतम् ॥६८॥ विभागे लिङ्गविस्तारे चैकां शेनार्धचन्द्रकम् । सार्धत्र्यंशेन तुल्यं स्यादष्टांशे बुद्बुदाकृ(तिः?ति) ॥ ६६ ॥ ९५ । लिङ्गे प्रशस्तानि चिह्नान्याह—पद्ममिति । स्पष्टम् । ९६ । रेखामाह—पूजायाम इति । पूजायामे शिवांशे षोडशभिर्विभक्ते दशभिरंशैर्लिङ्गं चिह्नितव्यम् । पीठस्य ऊर्ध्वद्विभागेन प्रदक्षिणे रेखा कार्येत्यन्वयः । द्वितीयार्धं प्रथमार्ध- स्यैवानुवाद इति मन्यामहे । ९८ । सम्प्रति लिङ्गस्य शिरोवर्तनम् अंशवशेन तस्य संज्ञाश्चाऽऽह द्वाभ्याम्—छत्राभमिति । त्रिभागीकृतस्य लिङ्गस्य ऊर्ध्वभागः शिवांश इत्युक्तम्, शिवां अंशं पुनस्त्रिधा विभज्य लब्ध ऊर्ध्वभागो मुखम्, तत्र वर्तनं भवेदिति वस्तुस्थितिः । वर्त्तनमिति वृत्तक्रियामाह, यथा अर्द्धचन्द्राद्याकारः सम्पद्यते । शिरोभागे अष्टमांशे अष्टांशे अष्टभिरंशीकृते इत्यर्थः, सार्द्धद्व्यंशे छत्राभं षडंशे त्रपुषाभं वर्त्तनं भवेत् । त्रपुषाभमिति त्रपुषाप्रसदृशमित्यर्थः, त्रपुषं फलविशेषः यस्य 'शशा' इति ख्यातिर्वङ्गेषु ;

१२० देवतामूर्त्तिप्रकरणम् [ दुष्टलिङ्गलक्षणम् ] ऊर्द्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् । दीर्घं वा सन्धिरे(षा?खा)भिर्युक्तं काकपदा(दिवै?दिकैः)॥१००॥ [ स्फाटिकलिङ्गमानम् ] एकाद्वित्र्यङ्गुला वृद्धिर्हानिरायादिशुद्धये । मात्रादि स्फाटिकं लिङ्गं यावदेकादशाङ्गुलम् ॥१०१॥ इति दारुजानि स्फाटिकानि (च) । [ अथ बाणलिङ्गानि ] [ तत्र लिङ्गोत्पत्तिस्थानानि ] कुरुक्षेत्रे च लिङ्गानि सरस्वत्यां तथा पुनः । वाराणस्यां प्रयागे तु गङ्गायाः सङ्गमेषु च ॥ १०२ ॥ यानि वै नर्मदायाश्च अन्तर्वेदे च सङ्गमे । केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ १०३ ॥ विस्तरार्द्धे कक्कुटाण्डं त्रिभागैकभागे अर्द्धचन्द्रकम् अष्टांशीकृतस्य सार्द्धत्र्यंशेन तुल्यं बुद्धदाकृति शिरः स्यादित्यर्थः । एवं पञ्चधा वर्त्तनं भवेत् । तथाच शिल्परत्ने— छत्राभं त्रपुषाकारं कक्कुटाण्डनिभं तथा । अर्द्धेन्दुसदृशं चाथ बुद्बुदाभन्तु पञ्चमम् ॥ सर्वेषामपि लिङ्गानां शिरसो वर्त्तनक्रमम् । इति । ( उ० अ० २, श्लो० ११६-११७ ) । १०० । सम्प्रति दुष्टलिङ्गान्याह—ऊर्द्ध्वाधोमध्यहीनमिति । ग्रन्थान्तरेऽस्य 'लक्षणोद्धार' इति शिरोनाम दृश्यते । तस्य च वर्जनीयत्वमाह— 'शिरसो वर्त्तनोपेतं लक्षणोद्धारवर्जितम्' इति ( काश्यप० अ० ४९, श्लो० १४ ) । एतच्च स्फाटिकादिलिङ्गविषयमिति सम्भाव्यते, तत्रैवैतेषां दोषाणां दृष्टत्वात् । तथाच शिल्परत्ने रत्नदोषमधिकृत्य— रेखा बिन्दुः कलङ्कश्च काकाङ्घ्रिक्षतधूलयः । तुषारत्रासरन्ध्राणि यत्नादु रत्नेषु वर्जयेत् । इति । ( उ० भा० अ० १, श्लो० ३५-३६ ) ।

षष्ठोऽध्यायः १२१ [ बाणलिङ्गपरीक्षा ] त्रिपञ्च(नारं?वारं) यस्यैव तुलासाम्यं (जनायते?न जायते) तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥ १०४ ॥ [ वर्ज्यबाणलिङ्गानि ] स्थूलं वरञ्च दीर्घञ्च (स्फटिकं ? स्फुटितं) (छिन्न?छिद्र)संयुक्तम् । बिन्दुयुक्तञ्च शूलाग्रं कृष्णञ्च (वि?चि)पिटं तथा ॥ १०५ ॥ (वक्तृ?वक्र)ञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् । वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ १०६ ॥ [ क्वचित् पाषाणस्यापि पूज्यत्वम् ] महानदीसमुद्भूतं सिद्धक्षेत्रादिसम्भवम् । पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सदा ॥ १०७ ॥ [ यथातथावस्थितस्यापि बाणस्य प्राशस्त्यम् ] पुष्पपीठमपीठं वा मन्त्रसंस्कारवर्जितम् । भुक्तिमुक्तिकरं बाणं सर्वप्रासादपीठकम् ॥ १०८ ॥ [ भोगदबाणलक्षणम् ] ऊर्ध्वस्थूलं कृशं चाधो यदा लिङ्गं निवेशयेत् । तदा भोगं विजानीयात् पुत्रपौ(त्रा?त्र)श्च वर्धते ॥ १०६ ॥ १०४ । बाणलिङ्गपरीक्षाम्राह—त्रिपञ्चवारमिति । यस्यैवेत्येवकारो भिन्नक्रमे । यस्य त्रिपञ्चवारं पञ्चदशवारम् एव तुलासाम्यं न जायते प्रतिवारमेव मानं भिद्यते इत्यर्थः, तदा बाणं बाणलिङ्गं समाख्यातं कथितं मुनिभिरिति शेषः ; ‘अमेयः खलु भगवानि’ति भावः । १०७ । महानदीति । रूपमण्डने (अ० ४, श्लो० ७८) ‘ग्रन्थान्तरे’ इत्युपक्रम्यायं श्लोकः पठितः । लिङ्गवदिति बाणवदित्यर्थः, तस्यैव प्रस्तावात् । १०८ । पुष्पपीठमिति । प्राणतोषणीधृतवीरमित्रोदयेऽयं श्लोकः ‘पुष्पपीठ’मित्यत्र ‘तत् सपीठ’मिति, भुक्तिमुक्तिकरमित्यत्र ‘सिद्धिमुक्तिकप्रद’मिति ‘पीठक’मित्यत्र ‘पीठग’मिति च विपरिवर्त्तनेनोपलभ्यते । एवमन्यान्यपि लक्षणानि पौराणिकान्येवेति द्रष्टव्यम् । देवता—१६

१२२ देवतामूर्त्तिप्रकरणम् ऊर्ध्वकृशं यदा लिङ्गं स्थूलं चाधो निवेशयेत् । तदा (भु ? मु)क्तिं विजानीयात् संसा(रस्थिति ? रोच्छित्ति)कारणम् ॥ ११० ॥ [ सर्वावस्थास्वपि बाणस्य पूज्यत्वम् ] ह्रस्वं दीर्घं (कृश?कृशं)स्थूलं षण्डं कुब्जञ्च वामनम् । त्र्य(स्तं?स्र-)पीठं चतुरस्रं स्थूलाग्रं चक्रसंयुतम् ॥ १११ ॥ रे(षा?खा)कीलकसंयुक्तं सुवर्णं च निवर्णकम् । रक्तं कृष्णं तथा श्यामं पीतं शुक्लं च पाण्डुरम् ॥ ११२ ॥ सदोषगुणसंयुक्तं बाणं पूज्यञ्च नित्यशः । बलाल्लक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ११३ ॥ तस्माच्छतगुणं (पुष्पं ?पुण्यं) तत्संस्थापनपूजनात् । बाणलिङ्गं तथा पूज्यं तत्संस्थापनमुत्तमम् ॥ ११४ ॥ [ बाणस्थापनप्रशंसा ] सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम् । तत् फलं कोटिगुणितं प्राप्यते लिङ्गस्थापनात् ॥ ११५ ॥ यो लिङ्गं स्थापयेदेकं विधिपूर्वं सदक्षिणम् । सर्वागमोदितं पु(ष्पं? ण्यं) कोटिकोटिगुणं भवेत् ॥ ११६ ॥ शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीषु च । नर्मदायाश्च लक्षेण कोटिं च कुरुजाङ्गले ॥ ११७ ॥ कृत्वा स्नानञ्च (पी? पि)ण्डञ्च हुतं दानञ्च भोजनम् । गुणितं कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ११८ ॥ ११० । ऊर्ध्वकृशमिति । पूर्वं 'भुक्तिमुक्तिकरं बाणम्' इत्युक्तम्, तन्न कीदृशं भुक्तिकारं कीदृशं वा मुक्तिकरमित्येतदाह श्लोकद्वयेन, तत्रापि पूर्वश्लोके भुक्तिदलिङ्गलक्षणमुक्तमितीदानीं मुक्तिदलिङ्गलक्षणमाहेत्यवधार्य अर्थवानपि यथाश्रुतः पाठो विपरिवर्त्तित इति ज्ञेयम् ।