रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 202, कुल 335 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः ११५ [ वेशरलिङ्गानि ] वेशरे पञ्चपञ्चांशे गर्भाकारे विमानके । त्रयोदशांशकं हीने श्रेष्ठं कुर्याद् विचक्षणः ॥८६॥ [ लिङ्गप्रासादोचितनक्षत्रानयनम् ] उत्सेधाष्टगुणे सप्तविंशभिर्हरणे ततः । शेषमश्वयुजा(ध्यं?द्यं) तु काश्यपे— लिङ्गोच्चे द्विनंवांशे तु रसभूतयुगांशके । गुणांशे शान्तिकादिः स्याद् द्राविडे च चतुर्विधम् ॥ (अ० ४९, श्लो० ९३) इति द्विनंवांश इति चतुर्विधमिति च प्रकृताद् भिद्येते । ८९। वेशरालिङ्गमाह—वेशर इति । प्रमादबहुलोऽयं पाठः । शिल्परत्ने— पञ्चपञ्चांशके दैर्घ्ये वसुकृप्तषडंशकैः । विस्तारं वेशरे विद्यात् पूर्वध्वज्जयदादिकम् ॥ इति ( उ० अ० २, श्लो० ६६) काश्यपशिल्पे— वेशरे लिङ्गतुङ्गे तु विंशत्यंशविभाजिते । अष्ट वा सप्तषट्पञ्चभागैक्यांशं प्रकल्पितम् ॥ (अ० ४९, श्लो० ९४) इति चैकार्थबोधकं पद्यद्वयम् । ९० । प्रसङ्गात् प्रासादस्य लिङ्गस्य च नक्षत्रादीनि वक्तुमादौ नक्षत्रमाह—उत्सेधाष्टगुणे इति । एतानि च शिल्परत्नादौ आयादिरिति नाम्ना व्यपदिश्यन्ते । शुभानाम् एतेषामति- प्राशस्त्यमाह समराङ्गणसूत्रधारे— आयो व्ययश्च योनि(त्वं ? श्च) ताराश्च भवनांशकम् । गृहनामेति चिन्त्यानि करणानि गृहस्य षट् । त्रिभिः शुभैः शुभं वेश्म द्वाभ्यामेकेन चाशुभम् ॥ करणैश्चतुराद्यैस्तु शुभैरतिशुभं भवेत् ॥ (अ० २६, श्लो० ४९–५१) इति । इह गृहनाम वर्जयित्वाऽन्येषां पञ्चानां लक्षणानि लिखितानि । सम्प्रति व्याख्यायते । कर्तव्यस्य प्रासादस्य लिङ्गस्य वा भाविते उत्सेधे उन्नतिमाने अष्टभिर्गुणिते सप्तविंशत्या हृते च अवशिष्टसंख्यया नक्षत्रं जानीयादिति निष्कर्षः । अश्वयुजाद्य-