रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
DevanagariHindipublished335 पृष्ठ
पृष्ठ 203, कुल 335 में से
संदर्भ में पढ़ेंपृष्ठ 203
११६ देवतामूर्त्तिप्रकरणम् [ तस्कराद्यंशानयनम् ] नक्ष(त्रञ्च?त्रे च) चतुर्गुणे ॥६०॥ नवभिर्हरणे (षष्ठमश्यकं ?शेषमंशकं) तस्क(रं ति ?रादि)कम् । भुक्तिमुक्तिधनं (राज्ञा षडं का ? राजा षण्डञ्चाभयकं) वियत् । तस्करं (विषखण्डन्तु ?वियत् षण्डन्तु) निन्दितश्च सुपाठ(के?कैः) ॥६१॥ मिति अश्वन्यादिनक्षत्रम् । शेषसंख्यया नक्षत्रज्ञानञ्च—यथोक्तगुणहरणाभ्यामेकस्मिन्नवशिष्टे अश्विनी, द्वयोर्भरणी त्रिषु कृत्तिकेति क्रमेण । इयमेव रीतिः काश्यपे । तथाच—
-
-
- अंशमष्टगुणीकृते । सप्तविंशतिहृच्छेषमश्विन्यादिक(कं?)सम्भवेत् ॥ (अ० ५०, श्लो० ६१ ) इति । समराङ्गणसूत्रधारे तु प्रकारान्तरेण नक्षत्रानयनमुपदिष्टम् । तत्र हि सप्तविंशतिर्नक्षत्राणि जन्मसम्पदादिसंज्ञया नवधा विभक्तानि ; अत एव तत्र हरणमपि नवभिः कृतम् । तथाच— गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् । नवभिर्भाजिते तस्मिन् शेषं तारा प्रकीर्त्तिता ॥ ( समराङ्गण० अ० २६, श्लो० ४०-४१ ), एवमेव शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० १३-१४ ) । अयमेव हि प्रकारः साधीयान्, एक- प्रयासेनैव नक्षत्राणां तच्छुभाशुभानवाप्तिगमकत्वात् । ९१। अंशानयनप्रकारमाह—नक्षत्रे चेति । नक्षत्रे नक्षत्रमाने चतुर्गुणे चतुर्भिर्गुणिते नवभिर्हृते विभाजिते च शेषमंशकं भवेत् । तेषां संज्ञामाह—तस्करमिति । ‘युगवृद्ध्या नवे हासे त्वंशकं तस्करादयः’ (अ० ४९, श्लो० १०३) इति काश्यपे यथोक्तावेव गुणहारौ । परमस्ति नाम्नि विप्रतिपत्तिः । तथाच— तस्करं भक्तिशक्तिश्च वनं राजञ्च षण्डकम् । अभयं धनषण्ढञ्च नवांशकमुदाहृतम् ॥ (अ० ५०, श्लो० ६१ ) इति । एवं शिल्परत्नेऽपि (पूर्व० अ० १५, श्लो० २७-२८ ) नामभेदो विद्यते । नवता तु प्राचीनैव । समराङ्गणसूत्रधारे पुनर्गुणहारयोर्नाम्नि संख्यायां च विप्रतिपत्तिः । तथाच— व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च । भागं त्रिभिर्हरेत्तत्र यच्छेषं सोऽंशको भवेत् ॥ इन्द्रो यमश्च राजा च त्रयो नामभिरंशकाः । स्वनामतुल्यफलदा विज्ञातव्याह्वयोऽपि च ॥ (अ० २६, श्लो० ३७-४०)
-