भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 201, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 201

११४ देवतामूर्तिप्रकरणम् विकारांशे तदायामे भूत(भङ्गानि?वेदाग्नि)विस्तरम् । (नयदं ?जयदं) पौष्टिकं सार्थकामकं नागरे विदुः ॥८६॥ [ द्राविडलिङ्गानि ] गर्भे (त्रिसुप्रभागं ?त्रिःसप्तभागे) तु दशां(श?शो) द्राविडेऽधमः । (त्र्या?त्रयो)दशांश(के?कं) श्रेष्ठं (गर्भे ?मध्ये)ऽष्टांशेन पूर्ववत् ॥८७॥ त्रिःसप्तांशे निजायामे षट्पञ्चचतुरं(शतम् ?शकम् ) । जयदा(यि?दि) विशालं तु पूर्ववद् द्राविडे मतम् ॥ ८८ ॥ इति । काश्यपशिल्पे पुनर्द्वारमानेनेयं कल्पना, परं तत्र नागरादिसंज्ञा नास्ति । तथाच तत्र द्वारमानमभिधाय— अधमोत्तमयोर्मध्ये वसुभागविभाजिते । नवधा सकलोत्तुङ्गं द्वार ( मानं ? मानाद् ) विधीयते ॥ इत्युक्तम् । एतत्तु चित्रम्, सर्वत्रैव मध्यमष्टभिर्विभज्य नव लिङ्गानि विहितानि, परं कथं तथाविधे भागे लिङ्गनवकोत्पत्तिर्भवेदिति शिल्पिन एव कल्पयितुं प्रभवेयुः । ८६। नागरलिङ्गस्य विस्तारक्रमेण नामान्याह—विकारांश इति । तदायासे लिङ्गायामे विकारांशे जयदं पौष्टिकं सार्थकामकञ्च लिङ्गं यथाक्रमं भूतवेदाग्निविस्तरं पञ्चचतुस्त्र्यंशविशालं विदुः । पञ्चांशविस्तृतं जयदम्, चतुरंशविस्तृतं पौष्टिकम्, त्र्यंशविस्तृतं सार्थकामकम् इति निष्कर्षः। शिल्परत्ने ( उ० भा० अ० २, श्लो० ६३ ) पुनः 'सार्वकामिकमि'ति तृतीयं नाम द्राविडे प्रासादे एषां स्थानञ्चोक्तम् । अत्र विकारपदेन षोडश प्रकृतिविकारा उच्यन्ते, काश्यपशिल्पे— अथोदये कलांशे तु पञ्चांशं स्वस्तिकं भवेत् । वेदांशं पौष्टिकं ख्यातं गुणांशं जयदं भवेत् ॥ ( अ० ४९, श्लो० ९१ ) इति यथोक्तांशस्य कलाशब्देनोल्लेखात् । अत्रापि नाम्नां भेदः पौर्वापर्यविपर्ययश्च द्रष्टव्यौ । ८७ । द्राविडप्रासादे लिङ्गायामविस्तारौ वक्तुमंशविभागमाह—गर्भ इति । द्राविडे प्रासादे त्रिःसप्तभागे एकविंशतिभागे कृते दशांशोऽधमः त्रयोदशांशकं श्रेष्ठं भवति । मध्येऽष्टांशे- नेति पूर्ववत् नागरे इव तयोर्मध्ये अष्टांशेन विभक्ते नवलिङ्गानि भवन्तीत्यर्थः । ८८। सम्प्रति विस्तारमाह—त्रिःसप्तांश इति । निजायाम इति लिङ्गदैर्घ्ये । षट्पञ्च- चतुरंशकं विशालं विस्तारं कुर्यादिति शेषः । जयदादीति क्रमेण तेषामंशानां पूर्ववत् जयदादि- संज्ञा स्यादित्यर्थः ।