रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 207, कुल 335 में से
संदर्भ में पढ़ें१२० देवतामूर्त्तिप्रकरणम् [ दुष्टलिङ्गलक्षणम् ] ऊर्द्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् । दीर्घं वा सन्धिरे(षा?खा)भिर्युक्तं काकपदा(दिवै?दिकैः)॥१००॥ [ स्फाटिकलिङ्गमानम् ] एकाद्वित्र्यङ्गुला वृद्धिर्हानिरायादिशुद्धये । मात्रादि स्फाटिकं लिङ्गं यावदेकादशाङ्गुलम् ॥१०१॥ इति दारुजानि स्फाटिकानि (च) । [ अथ बाणलिङ्गानि ] [ तत्र लिङ्गोत्पत्तिस्थानानि ] कुरुक्षेत्रे च लिङ्गानि सरस्वत्यां तथा पुनः । वाराणस्यां प्रयागे तु गङ्गायाः सङ्गमेषु च ॥ १०२ ॥ यानि वै नर्मदायाश्च अन्तर्वेदे च सङ्गमे । केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ १०३ ॥ विस्तरार्द्धे कक्कुटाण्डं त्रिभागैकभागे अर्द्धचन्द्रकम् अष्टांशीकृतस्य सार्द्धत्र्यंशेन तुल्यं बुद्धदाकृति शिरः स्यादित्यर्थः । एवं पञ्चधा वर्त्तनं भवेत् । तथाच शिल्परत्ने— छत्राभं त्रपुषाकारं कक्कुटाण्डनिभं तथा । अर्द्धेन्दुसदृशं चाथ बुद्बुदाभन्तु पञ्चमम् ॥ सर्वेषामपि लिङ्गानां शिरसो वर्त्तनक्रमम् । इति । ( उ० अ० २, श्लो० ११६-११७ ) । १०० । सम्प्रति दुष्टलिङ्गान्याह—ऊर्द्ध्वाधोमध्यहीनमिति । ग्रन्थान्तरेऽस्य 'लक्षणोद्धार' इति शिरोनाम दृश्यते । तस्य च वर्जनीयत्वमाह— 'शिरसो वर्त्तनोपेतं लक्षणोद्धारवर्जितम्' इति ( काश्यप० अ० ४९, श्लो० १४ ) । एतच्च स्फाटिकादिलिङ्गविषयमिति सम्भाव्यते, तत्रैवैतेषां दोषाणां दृष्टत्वात् । तथाच शिल्परत्ने रत्नदोषमधिकृत्य— रेखा बिन्दुः कलङ्कश्च काकाङ्घ्रिक्षतधूलयः । तुषारत्रासरन्ध्राणि यत्नादु रत्नेषु वर्जयेत् । इति । ( उ० भा० अ० १, श्लो० ३५-३६ ) ।