रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 197, कुल 335 में से
संदर्भ में पढ़ें११४ देवतामूर्तिप्रकरणम् [ शैललिङ्गनामानि ] (१)श्रीभवं (२)(नु ?तू)र्ध्वं (३)भवम् ॥७०॥ (४)भयहृत् (५)पाशहरणं (६)पापहस्तेज उच्यते । ततः परं (७)महातेजा (८)परापर(६)म(खे ? हे)श्वरम् ॥७१॥ (१०)शेखरश्च (११)शिवं (१२)शान्तं (१३)मनोल्हादकरं ततः । (१४)रुद्रतेजः (१५)सदात्मज्ञं (१६)वामदेव (१७)मघोरे (१८)श्वरम् ॥७२॥ (१९)तत्पुरुषं (२०)तथेशानं (२१)मृत्युञ्जय(२२)विजयक्रमात् । (२३)किरणाक्ष(२४)महोरात्रं (२५)श्रीकण्ठं (२६)मुनिवर्धनम् ॥७३॥ (२७)पुण्डरीकं (२८)सुवक्त्राख्यम् (२९)उमातेजं (३०)विश्वेश्वरम् । (३१)त्रिनेत्रं (३२)त्र्यम्बकं चैव (३३)महाकालञ्च नामतः ॥७४॥ [ प्रासादमानेन लिङ्गमानम् ] हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये । (ये ? ज्ये)ष्ठलिङ्गन्तु (वेदशं ? वेदांशे) षट्त्रिंशे नवहस्तकम् ॥७५॥ पञ्चादिभूतवेदा(न्तं ? न्ते) प्रासादे हस्तसंख्यया । मध्यमं पञ्चमांशेन हस्तादिनवहस्तकम् ॥७६॥ रित्यादि(?)युगलं चान्ते हस्तसंख्या शिवालये । षडंशेन प्रकर्त्तव्यं हस्तादि (भव ?नव)हस्तकम् ॥७७॥ ७६ । प्रासादमानस्यावधिमाह—पञ्चादीति । पञ्चसंख्याया आदिः पञ्चादिः चतुः- संख्येत्यर्थः । तथा च चतुर्हस्ततो भूतवेदान्ते पञ्चचत्वारिंशद्धस्तमिते प्रासादे हस्तसंख्यया लिङ्गं स्थाप्यमित्यर्थः । 'हस्तमानं भवेल्लिङ्गम्' इत्युक्तत्वादेवमनाजर्वेन व्याख्यातम् । ७७ । 'रित्यादियुगलं'मित्ययं दुर्ग्रहार्थः पाठः । यच्च समानतन्त्रे रूपमण्डने 'कृत्वा द्वियुगलम्' ( अ० ४, श्लो० ६२ ) इति पाठः सोऽपि दुर्ज्ञेयप्रकृतोपयोग इत्युपेक्षितः । 'अतिकोमलमेकतोऽन्यतः सरसाम्भोरूहवृन्तकर्कशम्' ।