रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 195, कुल 335 में से
संदर्भ में पढ़ें१०८ देवतामूर्त्तिप्रकरणम् [ दारुलिङ्गनामानि ] (१)मकरेन्दु च (२)मांलक्यं (३)पुष्पं (४)सिद्धार्थकं ततः। (५)दण्डाख्यं (६)ग्रौरवं (७)काम्यं (८)पुष्पकञ्च (६)फलोद्भवम् ॥६४॥ [ लिङ्गोचितवृक्षाः ] श्रीपर्णी शिशुकाशोकः शिरी(ष ? षः) खदिरोऽर्जुनः । चन्द(न ? नः) श्रीफलो निम्बो रक्तचन्दनवीर्यकौ ॥६५॥ कर्पूरो देवदारुश्च स्यन्दनः पारिजातकः । चम्पको मधुवृक्षश्च (हिताश्चागरुडः?हिन्तालश्चागुरुः) शुभः॥६६॥ [ वृक्षाणां लक्षणोद्धारः ] निर्त्र(णा ?: सु ) दृढा वृक्षा लिङ्गार्थे सौख्यदाय(कः ? काः) । ग्रन्थिकोटरसंयु(क्ता ?क्तान्) शाखोद्भू(ता ?तान् ) परित्यजेत् ॥ ६७ ॥ [ लिङ्गोचितानि गृहाणि ] निलयं दारुलिङ्गानाम् इष्टकादारुजं शुभम् । शैलजं धातुलिङ्गानां स्वरूपं वाऽधिकं शुभम् ॥६८॥ इति दारुजा(ती ? नि) । [ शैललिङ्गमानम् ] एकहस्तादिमं लिङ्गं हस्तवृद्ध्या नवान्तिकम् । शैललिङ्गस्य मानन्तु हस्त(हितं ? हीनं) न कारयेत् ॥६९॥ इति द्वितीयपादे शुद्धिः कृता । ततश्च षोडशाङ्गुललिङ्गमारभ्य एकैकाङ्गुलवर्धनाद् रसहस्तं यावल्लिङ्गानि यथोक्तसंख्याकान्येव स्युरिति सर्वमनवद्यम् । ‘आरसे’त्यादावाङ् मर्यादायाम् एकाङ्गुलोनरसहस्तान्तमित्यर्थः, एवमेवाष्टाविंशोत्तरशतसंख्या स्यात् । मध्ये शुद्धिरित्यु प्रास्ताविक्येव । ६४ । नवानां लिङ्गानां नामान्याह-मकरेन्दु चेति । ६५ । लिङ्गवृक्षानाह-‘श्रीपर्णी’त्यादि ‘हिन्तालश्चागुरुः शुभः’ (६६) इत्यन्तेन । ‘स्यन्दन’ इत्यत्र ‘चन्दन’ इति प्रामादिकः पाठो रूपमण्डने (अ० ४, श्लो० ५६ ) । ६९ । शैललिङ्गमानमाह-एकेति । एकहस्ततो नवहस्तान्तं शैललिङ्गं कुर्यात् ।