रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 189, कुल 335 में से
संदर्भ में पढ़ें१०२ देवतामूर्तिप्रकरणम् शिवनारायणं वक्ष्ये सर्वपापप्रणाशनम् । वामार्द्धे माधवं विद्याद्दक्षिणे शूलपाणिनम् ॥ ३६ ॥ बाहुद्वयञ्च कृष्ण(अ?स्य) मणिकेयूरभूषितम् । शङ्खचक्रधरं शान्तमारक्ताङ्गु(ली?लि)विभ्रमम् ॥ ३७ ॥ चक्रस्थाने गद(ां)वाऽपि पाणौ दद्यादधस्तने । शेषं वा दक्षिणे दद्यात् कट्यर्थं भूषणोज्ज्वलम् ॥ ३८ ॥ पीतवस्त्रपरीधानं चरणं मणिभूषितम् । दक्षिणार्धजटाभार(मर्धं दुष्कृत?मर्द्धेन्दुकृत)लक्षणम् ॥ ३६ ॥ भुजङ्गहारवलयं वरदं दक्षिणं करम् । द्वितीयं चापि कुर्वीत त्रिशूलवरधारिणम् ॥ ४० ॥ व्यालोपवीतसंयुक्तं कट्य(र्धं कृत?र्धे कृत्ति)वाससम् । मणिरत्नैश्च संयुक्तं पादं नागविभूषितम् ॥ ४१ ॥ इति शिवनारायणः । एकपीठसमारूढं तनु(त्येक?त्य)निवासिनम् । षड्(वक्तृञ्च ? भुजञ्च) चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥४२॥ अक्षसूत्रं त्रिशूलञ्च गदाञ्चैव तु दक्षिणे । कमण्डलुञ्च खट्वाङ्गं चक्रं वामभुजे तथा ॥ ४३ ॥ इति ह(री?रि)हर(पी?पि)तामहः । ३८। 'शेषं वा दक्षिणे दद्यादि'त्यत्र 'शङ्ख' चैवोत्तरे दद्यादि'ति मत्स्यपुराणे (२६० अ०, २४ श्लो०) पाठः । ४२। द्वाचत्वारिंशश्लोकात्त्रिचत्वारिंशश्लोकं यावदेकं हरिहरपितामहलक्षणम्, पुनश्चतु- श्चत्वारिंशश्लोकात् पञ्चत्वारिंशश्लोकं यावदन्यद् हरिहरपितामहलक्षणमिति; किमभिसन्धान- मूलेयं लक्षणद्वयीति नावधारयामः। न चैका पुष्पिकैव खपुष्पायतामिति वाच्यम्; उभयो-