भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 189, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 189

१०२ देवतामूर्तिप्रकरणम् शिवनारायणं वक्ष्ये सर्वपापप्रणाशनम् । वामार्द्धे माधवं विद्याद्दक्षिणे शूलपाणिनम् ॥ ३६ ॥ बाहुद्वयञ्च कृष्ण(अ?स्य) मणिकेयूरभूषितम् । शङ्खचक्रधरं शान्तमारक्ताङ्गु(ली?लि)विभ्रमम् ॥ ३७ ॥ चक्रस्थाने गद(ां)वाऽपि पाणौ दद्यादधस्तने । शेषं वा दक्षिणे दद्यात् कट्यर्थं भूषणोज्ज्वलम् ॥ ३८ ॥ पीतवस्त्रपरीधानं चरणं मणिभूषितम् । दक्षिणार्धजटाभार(मर्धं दुष्कृत?मर्द्धेन्दुकृत)लक्षणम् ॥ ३६ ॥ भुजङ्गहारवलयं वरदं दक्षिणं करम् । द्वितीयं चापि कुर्वीत त्रिशूलवरधारिणम् ॥ ४० ॥ व्यालोपवीतसंयुक्तं कट्य(र्धं कृत?र्धे कृत्ति)वाससम् । मणिरत्नैश्च संयुक्तं पादं नागविभूषितम् ॥ ४१ ॥ इति शिवनारायणः । एकपीठसमारूढं तनु(त्येक?त्य)निवासिनम् । षड्(वक्तृञ्च ? भुजञ्च) चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥४२॥ अक्षसूत्रं त्रिशूलञ्च गदाञ्चैव तु दक्षिणे । कमण्डलुञ्च खट्वाङ्गं चक्रं वामभुजे तथा ॥ ४३ ॥ इति ह(री?रि)हर(पी?पि)तामहः । ३८। 'शेषं वा दक्षिणे दद्यादि'त्यत्र 'शङ्ख' चैवोत्तरे दद्यादि'ति मत्स्यपुराणे (२६० अ०, २४ श्लो०) पाठः । ४२। द्वाचत्वारिंशश्लोकात्त्रिचत्वारिंशश्लोकं यावदेकं हरिहरपितामहलक्षणम्, पुनश्चतु- श्चत्वारिंशश्लोकात् पञ्चत्वारिंशश्लोकं यावदन्यद् हरिहरपितामहलक्षणमिति; किमभिसन्धान- मूलेयं लक्षणद्वयीति नावधारयामः। न चैका पुष्पिकैव खपुष्पायतामिति वाच्यम्; उभयो-