भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 210, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 210

षष्ठोऽध्यायः १२३ स्थापि(तं? ते) चैकलिङ्गे तु देवकल्पाभिवन्दिते । विमानकाञ्चनारूढो सुरवायैस्तु वायते ॥ ११९ ॥ भ्रमते सुर(लिङ्गन्तु ? लोके तु)च्छिन्नसंसार(वर्धनं ? बन्धनः) । सर्वसिद्धिकरं चैव सर्वकामफलप्रदम् ॥ १२० ॥ (बाणलिङ्गा तु लिङ्गानामाकर्षणां ?) स्वयम्भुवा । पीठं (प्र? प्रा)सादरूपञ्च यथेष्टं कारयेत् सुधीः ॥ १२१ ॥ [ एकास्त्रादिबाणमाहात्म्यम् ] एका(स्व? स्त्र)बाणमारभ्य यावच्चतुर्दशा(श्रयम्? स्त्रकम्) । पूजया परया भक्त्या सर्वसौख्यप्रदं नृणाम् ॥ १२२ ॥ [ शिवतीर्थोदकलक्षणम् ] धातवे शतहस्तेषु बाणे पञ्चशतेषु च । स्वयम्भूस्सहस्रहस्ते शिवतीर्थोदकं स्मृतम् ॥ १२३ ॥ [ शिवतीर्थोदकस्य पुण्यजनकत्वम् ] स्नाने कृते महत् पुण्यं लिङ्गादिषु दिशं प्रति । [ शिवतीर्थोदकलङ्घने प्रत्यवायः ] लङ्घिते च महत् पापं शिवस्नानोदके नृणाम् ॥ १२४ ॥ [ प्रदक्षिणनियमः ] एकां चण्ड्यां (वरे ? रवौ) स(प्त ? त) तिस्रो दद्याद् विनायके । चतस्रो विष्णुदेवस्य शिवस्या(र्धं?र्धां) प्रदक्षि(णा?णाम्) ॥१२५॥ [ जैनदेवालये विशेषः ] जैनदेवाग्रसंस्थाने स्तोत्रमन्त्रार्चनादिकम् । नैव (पृष्टिः?दृष्टिः) प्रदातव्या (सन्मुखं?) द्वारलङ्घनम् ॥१२६॥