रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 211, कुल 335 में से
संदर्भ में पढ़ें: १२४ देवतामूर्त्तिप्रकरणम् [ प्रणालदिङ्नियमः ] पूर्वापरे यदा द्वारं प्रणालं चोत्तरे शुभम् । प्रशस्तं सर्वदेवानामिति शास्त्रार्थनिश्चयः ॥ १२७ ॥ [ पिण्डिकाया लक्षणम् ] लिङ्गायामपृथुकॢप्तं पिण्डिकानान्तु लक्षणम् । (आ?तत्वा)दौ ब्रह्मविष्णोश्च पिण्डिकाना(मुपध्य?)विदुः । [ तस्याः स्वजातिकर्त्तव्यत्वम् ] जात्यैकया विधातव्यं नेष्टमन्योन्यसंकरम् ॥ १२८ ॥ [ तत्र मतान्तरम् ] आहुः शैलेष्टमेकेचित् पीठं पक्केष्टकाम(दम्?यम्) । [ पीठानां सन्धिस्थानम् ] उपर्युपरि पीठानां सन्धिरङ्गावसानके ॥ १२९ ॥ [ नालमध्ये कर्णसन्धेर्निषेधः ] नालस्य मध्यमध्ये च कर्णसन्धिं न सन्धयेत् । [ प्रणालभागकथनम् ] प्रणालन्तु त्रिभागेन तत्तुल्यं चा(ग्रा?ग्रम)र्धकम् ॥ १३० ॥ त्रिधा विभक्तमग्रे तु मध्ये सजलमा(ग ? र्ग)तः । कन्दे तु पादमेकैकं मध्यवंशोद्गवाक्रु(ती ? ति) ॥ १३१ ॥ [ मेखला ] पृथूपीठ(स्तुनां?गुणां)शेन मे(ष?ख)ला श्रवणाकृतिः । [ खातविधानम् ] मेखला (च?) त्रिभागेन खातं कुर्यात्तथा परम् ॥ १३२ ॥ १२७ । यस्य देवालयस्य पूर्वस्यामपरस्यां वा दिशि द्वारं वर्त्तते तत्र उत्तरस्यां दिशि प्रणालः कर्त्तव्यः। प्रणालो जलनिःसरणमार्गः। १३२ । इदानीं पीठिकामाह—मेखलेति। पञ्चश्लोकीयं क्वचिद् विकृतपाठा क्वचिदन्त- र्विच्छिन्नेति व्याख्यानायोग्या।