रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 218, कुल 335 में से
संदर्भ में पढ़ेंसप्तमोऽध्यायः —:*:— [ अथ चतुर्विंशतितीर्थङ्कराः ] (१)ऋषभाश्चा(२)जितश्चैव ((३)सम्भवैश्या?सम्भवश्चा)(४)भिनन्दनः । (५)सुमतिः (६)पद्मनाभश्च ((७)सूर्याश्चे?सुपार्श्वः) सप्तमानतः ॥१॥ (८)(चन्द्रः?चन्द्र) प्रभः (६)पुष्पद(न्त ? न्तः) (१०)शीत(ला ? लो) दशमो मतः । (११)श्रेयांसो (१२)वासपत्न्यश्च (१३)विमलो(१४)ऽनन्त((१५)तद्गकः ? धर्मकौ) ॥ २ ॥ (१६)शान्तिश्च(१७-१८)( पुथारु ? कुन्थनाथार ) (१६)मल्ल्यो (२०)मुनिसुव्रतः । (नाभि या ? (२१)नमि (२२)नेमि-पा(२३)र्श्वनाथो(२४)वर्धमान- स्ततः परम् । चतुर्विंशतिरित्येते मतास्तीर्थङ्करा बुधैः ॥ ३ ॥ १-३ । यावद् दैवतमूर्त्तिं कर्तुकामः सम्प्रदायविशेषाणामेव तामभिधाय यद्यन्तरा विरमे- त्तदाऽवशिष्टाऽपि जैनदेवतानां मूर्त्तिः किमनेनाज्ञानादवज्ञानाद्वापेक्षितेति शिष्याणां भ्रमो मा भूदिति जिनानां मूर्त्तिमाह—ऋषभ इति । जिनाश्च सर्व एव समानाकृतयश्च इति तेषां मूर्त्तौ विशेषमनभिधाय विशेषवतीस्तत्तच्छासनदेवतानां मूर्त्तीरेवाग्रे लक्षयिष्यतीति ज्ञेयम् । जैनानां समये उत्सर्पिण्यवसर्पिणीति द्विधा युगानि भिद्यन्ते । तत्रावसर्पिण्यां जना उन्नताः क्रमेणावनतिं प्रपद्यन्ते, उत्सर्पिण्याञ्चावनता जनाः क्रमेणोन्नतिं लभन्ते । अवसर्पिणी अतीत- युगस्य उत्सर्पिणी वर्त्तमानयुगस्य संज्ञा । अवसर्पिण्याख्ये व्यतीतयुगे चतुर्विंशतितीर्थङ्करा विलीनाः, वर्त्तमाने उत्सर्पिण्याख्ये युगे पुनश्चतुर्विंशतिरुद्बभूवुः । तेषामेवायमधिकारः कालः, त एव च जैनैर्देवाधिकत्वेन पूज्यन्ते मन्यते च देवा अप्येतानर्चयन्तीति । अत्र च वर्त्तमान- युगीयतीर्थङ्कराणामेव मूर्त्तिः क्रमेणोल्लिखितेति ज्ञेयम् । रूपमण्डने पुनः—'एतस्या(मिव ? मव ) सर्पिण्या ( ऋ ? ष् ) षभो ( जिन ? ऽजित ) सम्भवः' (अ० ६, श्लो०) इत्युपक्रमो दृश्यते ।