रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 219, कुल 335 में से
संदर्भ में पढ़ें१३२ देवतामूर्त्तिप्रकरणम् [ जिनानां वर्णाः ] रक्तौ च पद्मप्रभवासपूज्यौ शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी च नीलौ श्रीमल्लि(पार्श्वे ? पार्श्वौ) कन(कत्विषा ? कत्विषोऽ) न्ये ॥ ४ । ऋषभ इति अस्याऽऽदिनाथ इति नामान्तरम् । (६)पद्मनाभस्यापि पद्मप्रभ इति नामान्तरं रूपमण्डने (अ० ६, श्लो० १), शीलरत्नसूरिकृते चतुर्विंशतिजिनस्तुतिसंग्रहाख्ये ग्रन्थे चोपलभ्यते । ग्रन्थकृताऽप्युत्तरत्र वर्णनिर्णयावसरे 'पद्मप्रभ' इत्येव नाम धृतमिति द्वयमपि साधु । सप्तमान्त इति सुपार्श्वः सप्तम इत्यर्थः । (८)चन्द्रप्रभ इति, चन्द्रप्रभुरिति जिनस्तुतौ सूचनायामुपलभ्यते । मूलग्रन्थे पुनः— ‘चन्द्रप्रभ त्रिभुवनाधिपते प्रसीद सौभाग्यसुन्दरविभो कुशलाचलीद’ इति यथोक्तमेव नाम दृश्यते । यच्च जैनपद्मपुराणे ‘शशिभृत्प्रभुः’ (पर्व० २० श्लो० ८) इत्युपलभ्यते, तत्र ‘शशभृत्प्रभः’ ‘शशभृत्प्रभु’र्वा भविष्यतीति सम्भावयामः। (९) पुष्पदन्त इत्यस्य रूपमण्डने (अ० ६, श्लो० २), जिनस्तुतौ, पद्मपुराणे च ‘सुविधि’रिति नाम । यद्यपि ‘तक्षक’ इत्यत्र लिपिकृतप्रमादबुद्ध्या ‘धर्मक’ इति कल्पनमतिसाहसं तथाऽपि यथार्थपाठोद्धारे बद्धपरिकराणामस्माकं न केवलं लिपिकृतप्रमादोच्छेदे तात्पर्यं सङ्कोचनीयम्, दर्शितमेतदर्वाग् दर्शयिष्यते चेत ऊर्ध्वमपि । उपलभ्यते च ‘धर्मक’ इति नाम जैनपद्मपुराणादौ रूपमण्डने च (अ० ६, श्लो० ३१)। एवञ्च ‘पुष्पदन्त’ इत्यत्राप्यपेक्षिता शुद्धिर्न कृतेति न्यूनतां छन्दस्या- सञ्जयता कथञ्चित् सुखमनुभूयते । यद्वा उभयत्राप्यनपेक्षिता शुद्धिस्तन्त्रान्तरे तथाविधाभिधानस्य सम्भवादिति दिक् । नमीति । नाथपदस्य सर्वत्रैवान्वयः, नमिनाथो नेमिनाथः पार्श्वनाथश्चेति । किञ्च ऋषभ इत्यादीनि सर्वाण्येव नामानि नार्थान्तानीति ज्ञेयम् । वर्धमान इत्यस्य महावीर इति नामान्तरम् अस्यैवायं शासनकालः । तथाच—‘पश्चिमो वीरो शासनं यस्य वर्त्तते’ इति (जै० प० २०।१०) ४। जिनानां वर्णानह—रक्तौ चेति । जैनपद्मपुराणे पुनरन्यथैव वर्णनिर्देशः । तथाच— चन्द्राभश्चन्द्रसंकाशः पुष्पदन्तश्च कीर्त्तितः । प्रियङ्गुमञ्जरीवर्णः सुपार्श्वो जिनसत्तमः ॥ अपक्वशालिसङ्काशः पार्श्वो नागाधिपस्तुतः । पद्मगर्भसमच्छायः पद्मप्रभजिनोत्तमः ॥ किंशुकोत्करसंकाशो वासुपूज्यः प्रकीर्त्तितः । नीलाञ्जनगिरिच्छायो मुनिसुव्रततीर्थकृत् ॥ मयूरकण्ठसंकाशो जिनो यादवपुङ्गवः । द्युतसत्काञ्चनच्छायाः शेषा जिनवराः स्मृताः ॥ इति (पर्व० २० श्लो० ६३—६६) ।