भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 222, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 222

सप्तमोऽध्यायः १३५ (२०)नरदत्ता च (२१)गान्धार्य्(२२)धिका (२३)पद्मावती तथा । (२४)सिद्धायका चेति जैन्यः क्रमाच् शासनदेवताः ॥ १६ ॥ [ अथ यक्षाणां मूर्त्तिलक्षणम् ] अथातः संप्रवक्ष्यामि यक्षिणीयक्षमूर्त्तयः । ऋषभ(भो ? भे) गोमुखो यक्षो हेमवर्णो गजासनः ॥ १७ ॥ वराक्षसूत्रं पाशञ्च बीजपू(रं) करेषु च ॥ १८ ॥ [ इति गोमुखः १ ] चक्रेश्वरी हेमवर्णा तार्क्ष्यारूढाऽष्टबाहुका । वरं बाणं चक्रपाशांकुश(वक्ता ? शक्त्य)शनिर्धनुः ॥१९॥ [ इति चक्रेश्वरी १ ] अ(ति ? जि)तस्य महायक्षो (हर्मा ? हंसा)रूढश्चतुर्मुखः । वरमुद्गरा(शा ? शनि)पाशाङ्कुशशक्त्यभयानि बीजपूरं च ॥ (?) २०॥ [ इति महायक्षः २ ] चतुर्भुजा गौरवर्णा गोधारूढाऽपराजिता । वरं चैव तथा पाशमङ्कुशं बीजपूरकम् ॥ २१ ॥ [ इत्यपराजिता ? अनितबला २ ] सम्भवे त्रिमुखो यक्षः श्यामो मयूरवाहनः । नकुलगदाभयाक्षं नागञ्च बीजपूरकम् ॥ २२ ॥ [ इति त्रिमुखः ३ ] १७ । इदानीं यस्य तीर्थङ्करस्य यो यक्ष उपासकः, या च शासनदेवता तान् क्रमेण वक्तुमाह—अथात इति । तत्र एकेन श्लोकेन यक्षमूर्त्तिरन्येन शासनदेवतामूर्त्तिर्वक्ति । एवमेव चतुर्विंशतितीर्थङ्कराणाम् उपासकान् शासनदेवताश्च प्रतिपादयतीति द्रष्टव्यम् । २० । बाहुबाहुल्यादायुधबाहुल्यं ततश्चाक्षरबाहुल्यं छन्दस इति सोढव्यमेव तत् ।