रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 223, कुल 335 में से
संदर्भ में पढ़ें१३६ देवतामूर्त्तिप्रकरणम् दुरितारिगौरवर्णा यक्षिणी महिषासना । वरदं चाक्षसूत्र(ञ्च ? ञ्चा)भयञ्च बीजपूरकम् ॥ २३ ॥ [ इति दुरितारिः ३ ] श्यामव(र्णा ? र्णो) गजारू(ढा ? ढ) ईश्वर- (श्वा ? श्चा)भिनन्दने । मातुलिङ्गाक्षसूत्रञ्च अङ्कुशं नकुलं तथा ॥ २४ ॥ [ इति यक्षनायकः ४ ] कालिका श्यामवर्णा स्या(त्) पद्मारूढा चतुर्भुजा । वरं पाशाङ्कुशं नागं दक्षिणा( खश्च ? धश्च ) सृष्टितः ॥२५॥ [ इति कालिका ४ ] तार्क्ष्यस्थं (वरदं ? तुम्बरं) श्वेतं सुमतौ तु चतुर्भुजम् । वरदं च तथा शक्तिनागपाशं गदा(धरे ? करे) ॥ २६ ॥ [ इति तुम्बरः ५ ] महाकाली ( महे ? हेम )वर्णा पद्मारूढा चतुर्भुजा । वरदं नागपाशं चाङ्कुशं स्याद् बीजपूरकम् ॥ २७ ॥ [ इति महाकाली ५ ] ( पद्मपन्नत्र ? पद्मनाभस्य ) कुसु ( मे ? मो ) नीलो हरिणवाहनः । बीजपूराभयं चैवाक्षसूत्रं नकुलं तथा ॥ २८ ॥ [ इति कुसुमः ६ ] २४। ईश्वर इति यक्षनायक इत्यर्थः । २५। दक्षिणाधश्च सृष्टित इति सृष्टिक्रमेण अनुलोमेनेत्यर्थः । दक्षिणाधश्च इति दक्षिणयोर्हस्तयोरधःक्रमेण । २८। यद्यपि ‘पद्मपन्नत्र’ इत्यत्र ‘पद्मप्रभस्य’ इत्येव शुद्धिः स्वाभाविकी पद्मप्रभश्च नामान्तरमित्युक्तम्, तथाऽपि मूले तथाविधपाठानुपलम्भादियं शुद्धिरस्माभिः कृता ।