रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 226, कुल 335 में से
संदर्भ में पढ़ेंसप्तमोऽध्यायः १३६ धनुश्चक्रञ्च नकुलं दक्षिणाधःकरक्रमात् । [ इति षण्मुखः १३ ] पद्मस्था विदिता पीता बाणपाशाहिकामुर्कम् ॥ ४१ ॥ [ इति विदिता १३ ] पाताल ( त्रि ? स्त्र्रि ) मु ( खा ? खो ऽ ) नन्ते र(क्ता ? क्तो) मकरवाहनः । पद्मखड्गं तथा पाशमक्षं खेटञ्च नाकुलम् ॥ ४२ ॥ [ इति पातालः १४ ] अङ्कुशी गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा । खड्ग ( स्त ? न्त ) था नागपाशमङ्कुशं खेटकं तथा ॥४३॥ [ इत्यङ्कुशी १४ ] किन्नरस्त्रिमुखो धर्मे लोहि( ते ? तः ) कूर्मवाहनः । बीजपूरं गदां चाभयाक्षमा [ ला ] ब्जनाकुलम् ॥ ४४ ॥ [ इति किन्नरः १५ ] कन्दर्पा गौरवर्णा स्यान्मत्स्यारूढा चतुर्भुजा । उत्पलं चाङ्कुशं हस्तेऽभयं पद्मं क्रमाद् भवेत् ॥ ४५ ॥ [ इति कन्दर्पा १५ ] गरुडः शान्तिनाथस्य श्यामः शूकरवाहनः । वाराहवदनो बीजपूरपद्माक्षनाकुलैः ॥ ४६ ॥ [ इति गरुडः १६ ] निर्वाणो गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा । पुस्तकं चोत्पलं पद्मं कमण्डलुः क्रमाद् भवेत् ॥ ४७ ॥ [ इति निर्वाणी १६ ] ४१ । बहुबाहुरयं षण्मुख इति सम्भाव्यते आयुधबाहुल्यदर्शनात् । ४२ । त्रिमुखत्वात् पातालः षड्भुज इति षडेवाऽऽयुधानि । ४४ । किन्नरोऽपि त्रिमुख त्वात् षड्भुजः ।