भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 226, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 226

सप्तमोऽध्यायः १३६ धनुश्चक्रञ्च नकुलं दक्षिणाधःकरक्रमात् । [ इति षण्मुखः १३ ] पद्मस्था विदिता पीता बाणपाशाहिकामुर्कम् ॥ ४१ ॥ [ इति विदिता १३ ] पाताल ( त्रि ? स्त्र्रि ) मु ( खा ? खो ऽ ) नन्ते र(क्ता ? क्तो) मकरवाहनः । पद्मखड्गं तथा पाशमक्षं खेटञ्च नाकुलम् ॥ ४२ ॥ [ इति पातालः १४ ] अङ्कुशी गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा । खड्ग ( स्त ? न्त ) था नागपाशमङ्कुशं खेटकं तथा ॥४३॥ [ इत्यङ्कुशी १४ ] किन्नरस्त्रिमुखो धर्मे लोहि( ते ? तः ) कूर्मवाहनः । बीजपूरं गदां चाभयाक्षमा [ ला ] ब्जनाकुलम् ॥ ४४ ॥ [ इति किन्नरः १५ ] कन्दर्पा गौरवर्णा स्यान्मत्स्यारूढा चतुर्भुजा । उत्पलं चाङ्कुशं हस्तेऽभयं पद्मं क्रमाद् भवेत् ॥ ४५ ॥ [ इति कन्दर्पा १५ ] गरुडः शान्तिनाथस्य श्यामः शूकरवाहनः । वाराहवदनो बीजपूरपद्माक्षनाकुलैः ॥ ४६ ॥ [ इति गरुडः १६ ] निर्वाणो गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा । पुस्तकं चोत्पलं पद्मं कमण्डलुः क्रमाद् भवेत् ॥ ४७ ॥ [ इति निर्वाणी १६ ] ४१ । बहुबाहुरयं षण्मुख इति सम्भाव्यते आयुधबाहुल्यदर्शनात् । ४२ । त्रिमुखत्वात् पातालः षड्भुज इति षडेवाऽऽयुधानि । ४४ । किन्नरोऽपि त्रिमुख त्वात् षड्भुजः ।