रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 227, कुल 335 में से
संदर्भ में पढ़ें१४० देवतामूर्त्तिप्रकरणम् कुन्थनाथस्य गन्ध(र्वो हिंस ? र्वः सिंह) स्थः श्यामवर्णभाक् वरदं नागपाशं चाङ्कुशं वै बीजपूरकम् ॥ ४८ ॥ [ इति गन्धर्वः १७ ] गौरवर्णा मयूरस्था बीजपूरत्रिशूलने । ( पद्ममुषंधिका ? ) चैव स्याद् बला नाम यक्षिणी ॥४६॥ [ इति बला १७ ] अरुनाथस्य यक्षेन्द्रस्त्रिनेत्रः शेषवाहनः । षण्मुखः श्यामवर्णा(स्या ? स्यो) मातुलिङ्गं शिरस्तथा ॥५०॥ खड्गं मुद्गरपाशौ चाभयाक्षाङ्कुशशूलकम् । खेटं धनुश्च नकुलं भुजा द्वादश कीर्त्तिताः ॥ ५१ ॥ [ इति यक्षेट् १८ ] धारिणी यक्षिणी नीलपद्मवर्णासनस्थिता । मातुलिङ्गोत्पलं चाक्षमालापद्मं करेषु च ॥ ५२ ॥ [ इति धारिणी १८ ] मल्लो (सुतः?सितः) (कुषोरोह?कुबेरोऽथ) रथारूढश्चतुर्मुखः। वरपर्शुंलमभया मुद्गरं शक्तिलुङ्गकम् ॥ ५३ ॥ [ इति कुबेरः १९ ] कृष्णवर्णा चतुर्हस्ता पद्मस्था धरणप्रिया । वरदं चाक्षसूत्रञ्च शक्तिर्वै मातुलिङ्गकम् ॥ ५४ ॥ [ इति धरणप्रिया १९ ] त्रिनेत्रो वरुणो यक्षो धवलो मुनिसुव्रते । वृषवाहश्चतुर्वक्त्रो जटामुकुटमण्डितः ॥ ५५ ॥ ५३ । पर्शुं लमिति वरदमित्यादिवद् बाहुविशेषणम् ; पर्शुः परशुपर्यायः ।