रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 230, कुल 335 में से
संदर्भ में पढ़ेंसप्तमोऽध्यायः १४३
श्रीवत्सश्च तथाऽशोकं वृषा वृश्चिकदुन्दुभिः । [ प्रतीहाराः ] इन्द्र इन्द्रजयश्चैव माहेन्द्रो (वी ? वि) जयस्तथा ॥ ६८ ॥ धरणेन्द्रो पद्मकश्च सुनाभः सुरदुन्दुभिः । इत्यष्टौ च प्रतीहारा (वि ? वी) तरागे तु शान्तिदाः ॥६९॥ [ प्रतीहाराणां स्वरूपम् ] फलवज्राङ्कुशं दण्डमिन्द्रसव्ये (ध्वज?जय)स्तथा । द्वौ वज्रौ फलदण्डन्तु माहेन्द्रसव्ये विजयस्तथा ॥ ७० ॥ (यदायूथयोगोद्भवा विपञ्चफणतोऽर्द्धगाः ?) । धरणेन्द्र(ः) पद्मकश्च सर्वशान्तिकरौ स्मृतौ ॥ ७१ ॥ यक्षरूपाधिका(रं च? राश्च) निधिहस्ताः शुभो(दराः? दयाः) । सुना(भं ? भो) दुन्दुभिश्चैव सर्वे शान्तिप्रदायकाः ॥७२॥ इत्यष्टौ च प्रतीहारा जिनेन्द्रस्य च शान्ति(दः ? दाः ) । नगरादिपुरग्रामे सर्वविघ्नप्रणाशनाः ॥ ७३ ॥ मुक्त्यर्थे विश्वमेतद् भ्रमति च बहुधा देवदैत्याः पिशाचा रक्षो गन्धर्वयक्षो नरमृगपशवो नैव मुक्तिं विजग्मुः । एकः श्रीवीतरागः परमपदसुखे मुक्ति(र्ना?मार्गे)विलीनो
- वन्द्यस्तेना(ग?द्य)जैनः सुरगण(म)नुजैः सर्वसौख्यस्य हेतुः ॥ ७४ ॥ इति श्रीक्षेत्रात्मज (सूत्र) भृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे जिनमूर्त्तिचतुर्विंशतियक्षयक्षिण्यधिकारो नाम सप्तमोऽध्यायः ॥ ७ ॥