रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 229, कुल 335 में से
संदर्भ में पढ़ें१४२ देवतामूर्त्तिप्रकरणम् पार्श्वः श्रीपार्श्वनाथस्य कूर्मारूढो गजाननः । बीजपूरोरगं नागं नकुलं श्यामवर्णभृत् ॥ ६२ ॥ [ इति पार्श्वः २३ ] पद्मावती रक्तवर्णा (कुकुं?कुक्कु)टस्था चतुर्भुजा । पद्मं पाशाङ्कुशं बीजपूरं हस्तेषु कारयेत् ॥ ६३ ॥ [ इति पद्मावती २३ ] महावीरस्य मातङ्गः श्यामः स्याद् गजवाहनः । दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ ६४ ॥ [ इति मातङ्गः २४ ] सिद्धायका नीलवर्णा सिंहारूढा चतुर्भुजा । पुस्तकं चाभयं चैव बाणं स्यान्मातुलिङ्गकम् ॥ ६५ ॥ [ इति सिद्धायका २४ ] [ इति जिनानां यक्षयक्षिणीमूर्त्तयः ] अथ द्वितीयभेदेन चक्रे ( श्वरी ) द्वादशभुजाष्टचक्रे वज्रयोर्द्वयमेव च । मातुलिङ्गाभयं चैव पद्मस्था ग(रलो ? रुडो)परि ॥ ६६ ॥ कैलासमोशरणाब्जसिद्धावर्त्तिसदाशिवम् । सिंहासनं धर्मचक्रमुपरीह छललयम् ॥ ६७ ॥ ६६ । एतेषां जिनानां शासनदेवतानाञ्च मध्ये चत्वारो मुख्या इति रूपमण्डनपर्या- लोचनया प्राप्यते । तथा च रूपमण्डने— जिनस्य मूर्त्तयोऽनन्ताः पूजिताः ( सौख्यसर्व ? सर्वसौख्य )दा । चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ श्रीआदिनाथो नेमिश्च ( पर्वे ? पार्श्वो ) वीर (चतु ? श्रुतु)र्थकः । चक्रे ( चर्या ? श्वर्य )म्बिका पद्मावती सिद्धायकेति च ॥ इति ( अ० ६, श्लो० २५-२६ ) । ६७ । कैलासं सोमशरणं ( सिधि ? सिद्धि ) वर्त्तसदाशिवम् । सिंहासनं धर्मचक्रमुपरोन्द्रातपत्रकम् ॥ इति रूपमण्डने (अ० ६, श्लो० २७) ।