रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 235, कुल 335 में से
संदर्भ में पढ़ें१४८ देवतामूर्त्तिप्रकरणम् दण्डञ्च परशुं पद्मं मोदकञ्च गजाननम् । गणेशं मूषकारूढं सिद्धिदं सर्वकामदम् ॥ २१ ॥ [ इति गणेशः ] क्रमेण कार्ये इति वर्त्तुलार्थः । तत्र पूर्वे द्वारे वामोडुम्बरे जया दक्षिणोडुम्बरे विजया, एवं दक्षिणे अजितापराजिते, पश्चिमे विभक्ता-मङ्गले, उत्तरे मोहिनी-स्तम्भिन्यौ इति ज्ञेयम् । अत्र 'विजया नाम सा भवेत्' ( १८ ) इत्यत्र 'विजया तामसा भवेत्' इति रूपमण्डने ( अ० ५, श्लो० ११ ) प्रामादिकः पाठः, प्रतिद्वारं द्वारपालिकानां यथाश्रुतद्वित्वभङ्गप्रसङ्गात्, अनूद्देशश्लोके तामसाया अपाठाच्च । सुखबोधार्थं चित्रे गौर्या आयतनदेवताः प्रतीहाराश्च निवेश्यन्ते— [ गौर्यायतनम् ] मोहिनी स्तम्भिनी भगवती गणेशः श्रिया मङ्गला सावित्री गौरी जया सिद्धिः विभक्ता सरस्वती कार्त्तिकेयः विजया अपराजिता अजिता [ कोष्ठमध्ये यथोक्ता आयतनदेवताः । कोष्ठाद् बहिर्द्वयोर्द्वयोर्द्वारोडुम्बरयोः पूर्वादिक्रमेण यथोक्ता जयाविजयादिद्वारदेवताश्च ] २१ । अथ गणेशमूर्त्तिंराह—दण्डञ्चेति । अत्राऽऽदर्शे श्लोकत्रयानन्तरम् 'इति हेरम्बः'