रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 236, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः १४१ वरं तथाऽङ्कुशं दण्डं परशुं चाभयं क्रमात् । कपालञ्च शरञ्चाक्षमालापाशगदा करे ॥ २२ ॥ पञ्चवक्त्रं त्रिनेत्रञ्च हेरम्बञ्च गणेश्वरम् । मूषके च समारूढं सर्वकामार्थसाधकम् ॥ २३ ॥ इति हेरम्बः रक्ताङ्गो गजवक्त्रः स्याद् रत्नकुम्भं तथाऽङ्कुशम् । परशुञ्च तथा द(न्तो?न्तं) दक्षिणाधःकरक्रमात् ॥ २४ ॥ इति गजाननः इत्येवं पुष्पिका दृश्यते । परं प्रथमश्लोके चतुर्णाम्, द्वितीये च दशानामायुधानां दर्शनादिह गणेशस्य पृथक् लक्षणादर्शनात्, रूपमण्डने ( अ० ५, श्लो० १६-१७ ) उभयोरेव पृथक् लक्षण- दर्शनाच्च एतच्छ्लोकानन्तरम् [ इति गणेशः ] इत्येवं अन्यैरन्तः पुष्पिकैका निवेशिता । शिल्प- रत्ने आयुधानां भेदो दृश्यते यथा— विघ्नेशं सपरश्वधाक्षवटिकादण्डोल्लसल्लण्डुकै- र्दोर्भिः पाशसृणीस्वदन्तवरदाढ्यैर्वा चतुर्भियुतम् । शुण्डाग्राहितबीजपूरमुरुकुक्षिं त्रीक्षणं संस्मरेत् सिन्दूराभमिभास्यमिन्दुशकलाद्याकल्पमब्जासनम् ॥ ( शि० उ० अ० २५, श्लो० ५७ ) इति । परमिदं गणेशस्य वा वक्ष्यमाणवक्रतुण्डस्य वा लक्षणं नोभयोरपि वेति सुधीभि- र्भाव्यम् । तत्र तु 'अथ बीजगणपति'रित्युपक्रम्य लक्षणान्येतानि लिखितानि दृश्यन्ते । २२ । इदानीं हेरम्बं निर्दिशति—वरमिति । अत्र कण्ठतोऽनुक्तत्वेऽपि एतन्मते अयं दशभुज इत्यायाति, आयुधानां तावत्सङ्ख्याकत्वदर्शनात् । शिल्परत्नेऽपि 'अथ हेरम्बः' इत्युपक्रम्य सार्धश्लोकत्रयेण तल्लक्षणमुक्तम्, तत्रापि दशभुजत्वमेव दृश्यते ( उ० अ० २५, श्लो० ५८-६१ ) । रूपमण्डने तु— वरं तथाऽङ्कुशं दण्डं दक्षिणे पार्श्वभागयोः । वामे कपालं बाणाक्षं पाशं कौमोदकी तथा ॥ ( अ० ५, श्लो० १६ ) इति विषमः पाठो विषमा चोभयतः पार्श्वयोरायुधरचना दृश्यते । २३ । पञ्चवक्त्रं त्रिनेत्रमिति गणेशहेरम्बयोः साधारणं लक्षणम्, गणेशलक्षणे वक्त्रनेत्रयो- रनुल्लेखात्, अत एव 'हेरम्बञ्च गणेश्वर'मित्यत्रोभयोरेव विशेष्यपरताऽभ्युपेया न त्वेकस्य विशेषणपरताऽपि ।