भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 236, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 236

अष्टमोऽध्यायः १४१ वरं तथाऽङ्कुशं दण्डं परशुं चाभयं क्रमात् । कपालञ्च शरञ्चाक्षमालापाशगदा करे ॥ २२ ॥ पञ्चवक्त्रं त्रिनेत्रञ्च हेरम्बञ्च गणेश्वरम् । मूषके च समारूढं सर्वकामार्थसाधकम् ॥ २३ ॥ इति हेरम्बः रक्ताङ्गो गजवक्त्रः स्याद् रत्नकुम्भं तथाऽङ्कुशम् । परशुञ्च तथा द(न्तो?न्तं) दक्षिणाधःकरक्रमात् ॥ २४ ॥ इति गजाननः इत्येवं पुष्पिका दृश्यते । परं प्रथमश्लोके चतुर्णाम्, द्वितीये च दशानामायुधानां दर्शनादिह गणेशस्य पृथक् लक्षणादर्शनात्, रूपमण्डने ( अ० ५, श्लो० १६-१७ ) उभयोरेव पृथक् लक्षण- दर्शनाच्च एतच्छ्लोकानन्तरम् [ इति गणेशः ] इत्येवं अन्यैरन्तः पुष्पिकैका निवेशिता । शिल्प- रत्ने आयुधानां भेदो दृश्यते यथा— विघ्नेशं सपरश्वधाक्षवटिकादण्डोल्लसल्लण्डुकै- र्दोर्भिः पाशसृणीस्वदन्तवरदाढ्यैर्वा चतुर्भियुतम् । शुण्डाग्राहितबीजपूरमुरुकुक्षिं त्रीक्षणं संस्मरेत् सिन्दूराभमिभास्यमिन्दुशकलाद्याकल्पमब्जासनम् ॥ ( शि० उ० अ० २५, श्लो० ५७ ) इति । परमिदं गणेशस्य वा वक्ष्यमाणवक्रतुण्डस्य वा लक्षणं नोभयोरपि वेति सुधीभि- र्भाव्यम् । तत्र तु 'अथ बीजगणपति'रित्युपक्रम्य लक्षणान्येतानि लिखितानि दृश्यन्ते । २२ । इदानीं हेरम्बं निर्दिशति—वरमिति । अत्र कण्ठतोऽनुक्तत्वेऽपि एतन्मते अयं दशभुज इत्यायाति, आयुधानां तावत्सङ्ख्याकत्वदर्शनात् । शिल्परत्नेऽपि 'अथ हेरम्बः' इत्युपक्रम्य सार्धश्लोकत्रयेण तल्लक्षणमुक्तम्, तत्रापि दशभुजत्वमेव दृश्यते ( उ० अ० २५, श्लो० ५८-६१ ) । रूपमण्डने तु— वरं तथाऽङ्कुशं दण्डं दक्षिणे पार्श्वभागयोः । वामे कपालं बाणाक्षं पाशं कौमोदकी तथा ॥ ( अ० ५, श्लो० १६ ) इति विषमः पाठो विषमा चोभयतः पार्श्वयोरायुधरचना दृश्यते । २३ । पञ्चवक्त्रं त्रिनेत्रमिति गणेशहेरम्बयोः साधारणं लक्षणम्, गणेशलक्षणे वक्त्रनेत्रयो- रनुल्लेखात्, अत एव 'हेरम्बञ्च गणेश्वर'मित्यत्रोभयोरेव विशेष्यपरताऽभ्युपेया न त्वेकस्य विशेषणपरताऽपि ।