रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 237, कुल 335 में से
संदर्भ में पढ़ें१२० देवतामूर्त्तिप्रकरणम् लम्बोदरं विनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तञ्च चलत्कर्णं ( समाचरम् ? सचामरम् ) ॥ २५ ॥ इति वक्रतुण्डः उच्छिष्टं मूषकस्थञ्च त्र्यक्षं व्यालोपवीतिनम् । भग्नदन्ताक्षसूत्रञ्च परशुं मोदकक्रमात् ॥ २६ ॥ इत्युच्छिष्टगणपतिः सिन्दूराभं त्रिनेत्रञ्च ( म?अ )भयं मोदकं (वच?तथा) । टङ्कं शरोऽक्षमाला च मुद्गरं चाङ्कुशं तथा । त्रिशूलं चेति हस्तेषु दधानं कुन्दवत् सितम् ॥ २७ ॥ इति हेरम्बः पाशाङ्कुशौ कल्पलता ( भृङ्ग?शृङ्गं ) बिभ्रत् करेषु च । शशिमौलस्त्रिनेत्रश्च रक्तः क्षिप्रगणाधिपः २८ ॥ [ इति क्षिप्रगणपतिः ] २५ । वक्रतुण्डं लक्षयति—लम्बोदरमिति । प्रमाणान्तरानुपलम्भेऽपि ग्रन्थकृता कृतया पुष्पिकया वक्रतुण्ड एवायं न लम्बोदर इति जानीमः । २६ । उच्छिष्टगणपतिमाह—उच्छिष्टमिति । अयं रूपमण्डने नास्ति । शिल्परत्ने तु बीज- गणपतिप्रस्तावे— रक्ताक्षमालां परशुञ्च दण्डं भक्ष्यञ्च दोर्भिः परितो दधानम् । हेमावदातं त्रिदृशं गजास्यं लम्बोदरं तं शिरसा नमामि ॥ ( उ० अ० २५, श्लो० ५६ ) इति प्रकृतोच्छिष्टगणपतिलक्षणान्वितः कश्चिद् गणपतिर्लक्षितो दृश्यते । 'भक्ष्यं' मोदकम् । २७ । सिन्दूराभमिति । नायं रूपमण्डने न वा शिल्परत्ने उपलभ्यते । पूर्वं द्वाविंश- त्रयोविंशश्लोकाभ्यामेको हेरम्बो लक्षितः पुनरपरोऽपि लक्ष्यत इत्यहो हेरम्बग्रहिलता ग्रन्थकर्त्तुः । २८ । पाशाङ्कुशाविति । अयमपि रूपमण्डने नास्ति, अस्ति च शिल्परत्ने ; परं तत्र भृङ्गस्थाने 'स्वरदः' पदं करोति । तथाच— धृतपाशाङ्कुशकल्प (क) लतिकास्वरदश्च बीजपूरयुतः । शशिकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजाननः ॥ इति । एवञ्चात्र 'भृङ्गमि'त्यत्र 'दण्डमि'ति पाठः कल्पनीयो न वेति सुधीभिश्चिन्तनीयम् ।