भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 237, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 237

१२० देवतामूर्त्तिप्रकरणम् लम्बोदरं विनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तञ्च चलत्कर्णं ( समाचरम् ? सचामरम् ) ॥ २५ ॥ इति वक्रतुण्डः उच्छिष्टं मूषकस्थञ्च त्र्यक्षं व्यालोपवीतिनम् । भग्नदन्ताक्षसूत्रञ्च परशुं मोदकक्रमात् ॥ २६ ॥ इत्युच्छिष्टगणपतिः सिन्दूराभं त्रिनेत्रञ्च ( म?अ )भयं मोदकं (वच?तथा) । टङ्कं शरोऽक्षमाला च मुद्गरं चाङ्कुशं तथा । त्रिशूलं चेति हस्तेषु दधानं कुन्दवत् सितम् ॥ २७ ॥ इति हेरम्बः पाशाङ्कुशौ कल्पलता ( भृङ्ग?शृङ्गं ) बिभ्रत् करेषु च । शशिमौलस्त्रिनेत्रश्च रक्तः क्षिप्रगणाधिपः २८ ॥ [ इति क्षिप्रगणपतिः ] २५ । वक्रतुण्डं लक्षयति—लम्बोदरमिति । प्रमाणान्तरानुपलम्भेऽपि ग्रन्थकृता कृतया पुष्पिकया वक्रतुण्ड एवायं न लम्बोदर इति जानीमः । २६ । उच्छिष्टगणपतिमाह—उच्छिष्टमिति । अयं रूपमण्डने नास्ति । शिल्परत्ने तु बीज- गणपतिप्रस्तावे— रक्ताक्षमालां परशुञ्च दण्डं भक्ष्यञ्च दोर्भिः परितो दधानम् । हेमावदातं त्रिदृशं गजास्यं लम्बोदरं तं शिरसा नमामि ॥ ( उ० अ० २५, श्लो० ५६ ) इति प्रकृतोच्छिष्टगणपतिलक्षणान्वितः कश्चिद् गणपतिर्लक्षितो दृश्यते । 'भक्ष्यं' मोदकम् । २७ । सिन्दूराभमिति । नायं रूपमण्डने न वा शिल्परत्ने उपलभ्यते । पूर्वं द्वाविंश- त्रयोविंशश्लोकाभ्यामेको हेरम्बो लक्षितः पुनरपरोऽपि लक्ष्यत इत्यहो हेरम्बग्रहिलता ग्रन्थकर्त्तुः । २८ । पाशाङ्कुशाविति । अयमपि रूपमण्डने नास्ति, अस्ति च शिल्परत्ने ; परं तत्र भृङ्गस्थाने 'स्वरदः' पदं करोति । तथाच— धृतपाशाङ्कुशकल्प (क) लतिकास्वरदश्च बीजपूरयुतः । शशिकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजाननः ॥ इति । एवञ्चात्र 'भृङ्गमि'त्यत्र 'दण्डमि'ति पाठः कल्पनीयो न वेति सुधीभिश्चिन्तनीयम् ।