रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 242, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः १५५ (अदौ ? आदौ) तत्र(१) महालक्ष्मी(२) (न ? नं)न्दा (३)क्षेमकरी तथा। (४)सर्वती (५) महरण्डा च (६) श्रमणी (७)सर्वमङ्गला ॥ ४८ ॥ (८)रेवती (६)हरसिद्धिश्च नवदुर्गाभिधानकम् । [ इति नवदुर्गानामानि ] (पृथुमे ? पृथगे) कैकस्यानुक्रमं कथयिष्याम्यनुक्रमात् ॥४६॥ वरदं त्रिशूलं खेटं पानपात्रञ्च बिभ्रती । नागनीलकण्ठमध्ये महालक्ष्मी(:) प्रकीर्त्तिता ॥ ५० ॥ [ इति महालक्ष्मीः ] अक्षसूत्रं खड्गखेटं पानपात्रं तथोत्तमम् । नन्दा नाम (संख्या ? समाख्या)ता पूज्यते नन्दहेतवे ॥ ५१ ॥ [ इति नन्दा ] वर(दं ?) त्रिशूलं पद्मं च पानपात्रं विधृत् करै । क्षेमङ्करी तथा नाम क्षेमारोग्यप्रदायिनी ॥ ५२ ॥ [ इति क्षेमङ्करी ] कमण्डलुं चक्रखेटं पानपात्रं तथोत्तरे । सर्वती च तदा नाम ( सर्वकृष्ट ? ) प्रदायिनी ॥ ५३ ॥ [ इति सर्वती ] खड्गं तथा त्रिशूलं च घण्टापात्रं तथोन्नतम् । महरण्डा (तथोन्नाम ? तथा नाम) वन्दिता विदशैरपि ॥५४॥ [ इति महरण्डा ] ४८ । 'क्षेमकरी'त्यत्र 'क्षेमङ्करी'ति लक्षणनिरूपणवेलायाम् । ४९ । अनुक्रमं क्रमेण एकैकस्याः कथयिष्यामि लक्षणमिति शेषः । ५० । नागनीलकण्ठयोरुपादानप्रयोजनमनुसन्धेयम् ।