रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 243, कुल 335 में से
संदर्भ में पढ़ें१५६ देवतामूर्त्तिप्रकरणम् खड्गं डमरुखेटपाशं बिभ्रती च करोत्तमैः । भ्रामणी च तदा नाम भ्रामयेद् दुष्टचेतसः ॥ ५५ ॥ [ इति भ्रामणी ] अब्जशूलं तथा वज्रं घण्टापालं तथोत्तमम् । सर्वमङ्ग(ल ? ला) मङ्गल्या सर्वविघ्नविनाशिनी ॥ ५६ ॥ [ इति सर्वमङ्गला ] दण्डत्रिशूलं खट्वाङ्गं पानपालं च बिभ्रती । रेवती च तदा नाम सर्वशान्तिप्रदायिनी ॥ ५७ ॥ [ इति रेवती ] कमण्डलुं खड्गडमरुं पानपालं तथा शुभम् । हरसिद्धिस्तदा नाम सर्वस्य सिद्धिहेतवे ॥ ५८ ॥ [ इति हरसिद्धिः ] इति नवदुर्गाः । क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः । कर्त्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ५६ ॥ वामे शूलं कपालं च मुण्डमालोपवीतकः । करोटि(नी ? नि)करोदारमालाग्रन्थिशेखरः ॥ ६० ॥ इति क्षेत्रपालः । ५५। उद्देशश्लोके 'भ्रमणी'ति वर्त्तते अत्र च भ्रामणीति दृश्यते, कतरदेतयोः परिवर्त्तन- मर्हतीत्यनिश्चिन्वद्भिरस्माभिः क्वापि न व्यापारितो हस्तः, परं प्रथमपरित्यागे मानाभावं मन्यमानैः पुष्पिकायां 'भ्रमणी'ति विहितम् । ५९-६०। क्षेत्रपालं लक्षयति—क्षेत्रपाल इति। शिल्परत्नेऽधमादौ सात्त्विकादिभेदेन त्रिधा भिद्यते सात्त्विकश्च द्विभुजचतुर्भुजत्वेन पुनर्द्विधेति साकल्येन चतुर्विधः । रूपमण्डने पुनरेक एव चतुर्भुजः । तथाच— क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ॥ ( कार्त्तिकां ? कर्त्तिकां ) डमरुं बिभ्रद्दक्षिणे तु करद्वये । वामे शूलं कपालञ्च मुण्डमालोपवीतकम् । करोति(?)कटितोदारसर्पग्रन्थिशेखरः ॥ इति (अ० ५, श्लो० ७४-७५) ।