रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 244, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः १५७ अथातः संप्रवक्ष्यामि (मात ? मातृ)रूपाणि ते (जया ? जय) । तत्र ब्राह्मी चतुर्वक्त्रा (पाठ ? षड्)भुजा हंससंस्थिता ॥ ६१ ॥ पिङ्गलीभूषणोपेता मृगचर्मोत्तरीयका । वरं सूत्रं कजं धत्ते दक्षबाहुत्रये क्रमात् ॥ ६२ ॥ वामेषु पुस्तकं (कुण्डी ? कुण्डीं) बिभ्र(त्तीं ? ती) चाभयप्रदा । [ इति ब्राह्मी ] माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ॥ ६३ ॥ बालेन्दुभृज्जटाजूटसुशोभा सर्वसौख्यदा । षड्भुजा ( दर ? वर )दा दक्षे सूत्रं डमरुकं तथा ॥ ६४ ॥ शूलं घण्टाभयं वामे सैव धत्ते महाभुजा । [ इति माहेश्वरी ] कौमारी रक्तवर्णा स्यात् षड्वक्त्रा सार्कलोचना ॥ ६५ ॥ रविबाहुर्मयूरस्था वरदा शक्तिधारिणी । पताका बिभ्रती दण्डं (पानं ? पाशं) बाणञ्च दक्षिणे ॥ ६६ ॥
करोतीति । करोटिनिकरेण ललाटास्थिसमूहेन ग्रथिता या उद्दारा महती माला तया ग्रन्थितः शेखरः शिरस्यकेशजूटो यस्य सः । अयमेव पाठः साधीयानिति प्रतिभाति, शिल्परत्ने (उ० अ० २५, श्लो० १०८) 'नानानागविभूषितत्व'स्योक्तत्वेऽपि रूपमण्डनीयपाठश्चिन्त्य एव । ६१ । इदानीं सप्त मातृर्लक्षयति—अथात इति । 'जय' इति विश्वकर्मणोऽन्यतममानस- पुत्रस्य नाम । शिल्पशास्त्रस्य प्रवक्ता विश्वकर्मा बोद्धव्यश्च तत्पुत्रेष्वन्यतमो जयो नामेति प्रसिद्धिरिति युज्यत एव तत्सम्बोधनम् । ६२ । पिङ्गली सुवर्णम् । कजं पद्मम् । दूरभिन्नमेवास्य लक्षणं शिल्परत्न- (उ० अ० २५, श्लो० ७६) रूपमण्डनयोः (अ० ९, श्लो० ६१-६३) । तयोरियं चतुर्भुजा । ६३ । इयमपि चतुर्भुजा शिल्परत्नरूपमण्डनयोः । ६५ । सार्कलोचनेति । सा अर्कलोचनेति च्छेदः, अर्कलोचना द्वादशनेत्रा । यद्वा, अर्कलोचनैः सह वर्त्तमानेति विग्रहः । रविबाहुर्द्वादशभुजा । इयमपि शिल्परत्न-रूपमण्डनयो- ऋतुर्भुजा ।