रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 245, कुल 335 में से
संदर्भ में पढ़ें१५८ देवतामूर्त्तिप्रकरणम् वामे चापमधो घ(ण्टा ? ष्टां) कमलं कुक्कुट(स्त्व ? न्व)धः । परशुं बिभ्रती दक्षे तदधस्त्वभयान्विता ॥ ६७ ॥ [ इति कौमारी ] वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा वनमालिनी । वरदा (दा ? ग)दिनी दक्षे दधती चाऽऽयुधस्रजम् ॥ ६८ ॥ शङ्खचक्राभ(या ? यैः) वामे (सच्चैर्य ? सा चैव) विलसद्भुजा । [ इति वैष्णवी ] कृष्णवर्णा तु वाराही शूकरास्या महोदरा ॥६६॥ वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा । खेटपाशाभ(या ? यैः)वामे सैव चापि लसद्भुजा ॥७०॥ [ इति वाराही ] ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजसंस्थिता । वरदा सूत्रिणी वज्रं बिभ्रत्यूर्द्ध्वं तु दक्षिणे । वामे तु कलशं पात्रमभयं तदधःकरे ॥ ७१ ॥ [ इति ऐन्द्री ] चामुण्डा प्रेतगा रक्ता विकृतास्याऽहिभूषणा । दंष्ट्र(दा ? ला) क्षीणदेहा च गर्त्ताक्षी भीमरूपिणी ॥ ७२ ॥ दिग्बाहुः क्षामकुक्षिश्च मुसलं ( चक्रयं ? चक्रकं ) शरः । अङ्कु(शी ? शं) बिभ्रती खड्गं ... ... चाप्यथ वामतः ॥७३॥ खेटं पाशधनुर्दण्डकुठारं (वे ? चे)ति बिभ्रती । [ इति चामुण्डा ] ६९ । शङ्खचक्राभयैरिति । वामभागे शङ्खचक्रादिभिर्विलसद्भुजेत्यन्वयः । ७१ । ऊर्द्ध्वं इत्यूर्द्ध्वक्रमेण । ७३ । 'अङ्कुशं बिभ्रती खड्गं' इत्यनन्तरं त्रुटितस्थाने 'सव्ये' इति स्यात् ।